अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 629, कुल 2600 में से
संदर्भ में पढ़ें५३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ५ सू० १७ भाष्यप्रकाशः। सर्वरूपत्वानन्दरूपत्वस्वकर्तृत्वभेदेन त्रिविधमपि वैशेष्यं साधितं ज्ञेयम् । एवं चात्र निर्दोषत्वरूपे वैशेष्य एव प्रकटसच्चिदानन्दरूपत्वात्मकं तज्ज्ञातुरपि दोषनिवारकत्वरूपं च हेतुद्वयमुपोद्घातत्वे- नोक्तमितीदमपि तस्यैव शेषः । अत्र विज्ञानेन्द्रेण काण्वपञ्चमाध्यायस्थं, यत् साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति प्रश्ने प्रवृत्तम्, एष त आत्मा सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां रश्मिः। कथं साधितमित्यपेक्षायामाहुः एवं चेति । निर्दोषत्वेति सर्वरूपत्वे स्वस्वरूपलयकर्तृत्वं 'कूर्मो- ङ्गानीव सर्वतः' इतिवाक्यात् कूर्मवत् । अतो भगवन्निर्दोषस्तत्त्व इत्यर्थः । नन्वन्यद्वारापि प्रलयकर्तृत्वं संभ्रवति स्वस्यैव प्रलयकर्तृत्वे वैषम्यंनैर्घृण्यं च स्यादिति चेन्न आनन्दरूपत्वे आनन्दभुक् इति श्रुतेः स्वाप्ययाच्चेति सूत्राच्च नान्यापेक्षत्वात् । ननु सगुणस्य लयकर्तृत्वमिति चेन्न स्वकर्तृत्वे स्वस्य निर्गुणात्मनः कर्तृत्वमिति त्रिभिः शब्दैर्निर्दोषत्वम् । तद्रूपे वैशेष्य इत्यर्थः । स्वारसिकार्यादितिनिर्दोषत्वमित्येवकारः । त्रिविधं वैशेष्यं निर्दोषत्वरूपं तस्यातिरिक्तत्वे गौरवमित्येवकारः । निमित्तं सप्तम्यर्थः । तादृशवैशेष्यार्थ विषयवाक्ये अमृताभयैतद्ब्रह्मपदैः प्रकटा ये सच्चिदानन्दास्तद्रूपत्वात्मकं हेतुं द्वितीयं 'यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते' इति स्वरूपतो निर्णय उक्तः । प्रथमो विषयवाक्यात् पूर्वं द्वितीयो हेतुरुक्तः । अक्षिपुरुषज्ञातुर्दोषः पापं तन्निवारकत्वम् । एतद्धेतुद्वयमुपोद्घातत्वेन प्रकृतं यद्वैशेष्यं तत्सिद्धयर्था चिन्तां हेतुद्वयविषयीणीमुपोद्घातं विदुर्बुधाः । तत्त्वेनोपोद्घातविषयत्वेन । उपोद्- घातपदं स्वविषये लाक्षणिकम् । इदमप्यधिकरणं तस्यैव शब्दविशेषादित्यधिकरणस्यैव शेषः । संभो- गप्राप्तिसूत्रस्यैव वा शेषः । शब्दविशेषादित्यधिकरणस्य संभोगसूत्रात्पूर्व समाप्तत्वात् वैशेष्ये हेतुद्वय- मनुमानसंग्रहे त्वेवं ब्रह्म वैशेष्यं सर्वरूपत्वादिसत्ता उक्तभाष्यात् तद्वत् प्रकटसच्चिदानन्दत्वात् आत्म- वत् । अत्र प्रत्येकं साध्यं अन्यथा हेतुसाध्ययोः सत्तासत्त्वयोरेक्ये साधारण्यप्रसङ्गात् । सत्त्वं हेतुः कथमिति चेन्न प्रकटसच्चिदानन्दत्वादित्यत्र प्रकटाश्च ते सच्च चिच्चानन्दश्च सच्चिदानन्दाः प्रकटसच्चिदा- नन्दास्तेषां भावः प्रकटसच्चिदानन्दत्वम् । अत्र त्वप्रत्ययस्य द्वन्द्वान्ते श्रूयमाणत्वात् 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इत्युद्घोषो वैयाकरणानामिति । जीवे साध्याभाववति हेतुवृत्तित्वाद्धेतोः साधारण्यं तद्वारणाय प्रकटेति हेतुविशेषणम् यथा वह्निमान् वह्निमत्त्वादित्यत्र । अत्र साध्यवत्पर्वतादि तदन्यो हसन्त्यादिस्तद्वृत्तित्वात् साधारणो हेतुः हेतौ साधारण्योव्यापकत्वं फलम् । अतो ब्रह्म सर्व- रूपत्वसत्तावत् प्रकटसच्चिदानन्दत्वात् पूर्ववत् आनन्दरूपत्वसत्तावत् प्रकटसच्चिदानन्दत्वात् तद्वदेव । स्वकर्तृत्वसत्तावत् प्रकटसच्चिदानन्दत्वात्तद्वदेवेति । न च दृष्टान्तासंभवः पक्षभिन्नत्वे सति निश्चित- साध्यवत्त्वस्य दृष्टान्तलक्षणत्वादिति वाच्यम् । एकदेशविकृतस्य ब्रह्मग्रथत्वसंबन्धावगाहिज्ञानस्या- स्मत्त्वेन तस्य पक्षभिन्नत्वात् । नच शतशः सहचारादर्शनान्नाप्तिग्रहासंभव इति शङ्क्यम् । स्वमत- प्रतिपन्नपक्षैकदेशे सहचारग्रहेपि क्षतेरभावात् । ब्रह्मवैशेष्यवत् । तज्ज्ञातृदोषनिवारकत्वात् यदेवं तदेव- म्मात्मवत् । एवं वैशेष्ये सिद्धे तेनाक्षिपुरुषो ब्रह्म विलक्षणभोगं वैशेष्यात् यदेवं तदेवमात्मवत् यन्नैवं तन्नैवं जीववदित्यनुमानं फलितम् । विज्ञानेन्द्रेणेति भगवता इति शेषम् । काण्वेति काण्वानां बृहदारण्यकपञ्चमाध्यायस्थं अपरोक्षात् अपरोक्षं ब्रह्म सोदात् न तादृशामनित्यं न तमिति प्राप्ते आत् यथा । अशनायेति अशनेति प्राप्ते सोर्या ऊष्णा पृष्णुनेति प्राप्ते ऊश्या पृष्णुयेति वा यथा । तथा 538