भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 630, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 630

अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥ (१-२-६) 'य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयती'त्युपक्रम्य श्रूयते । 'यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी भाष्यप्रकाशः । मृत्युमत्येतीति वाक्यमुपन्यस्य तदर्थस्य ब्रह्मत्वं चिन्तितम् । तदविरुद्धमित्युपरम्यते । शैवस्तु, अनवस्थितिसूत्रे भिन्नमधिकरणं स्वीकृत्य, 'अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्' ॥ इति तैत्तिरीयमहोपनिषद्वाक्यं विषयत्वेनोदाहृतवान् । तत्र प्राणो वा ब्रह्म वेति संशय्य, ब्रह्मैवेति निर्णीय, तं शिवत्वेन निगमितवान् । तत्र शिवत्वांशे दूषणं प्रहस्ते प्रपञ्चितमित्युप- रम्यते ॥ १७ ॥ इति पञ्चममन्तर उपपत्तेरित्यधिकरणम् ॥ ५ ॥ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥ पूर्वाधिकरणे भोगवैलक्षण्य- साधकं वैशेष्यमन्तर्गुहास्थितेऽक्षिपुरुषे चोपपादितम् । वाजसनेयिनां मण्डलब्राह्मणे, स एष एवेन्द्रो योऽयं दक्षिणेऽक्षन् पुरुषोऽथेयमिन्द्राणीत्यादिना हृदयदेशे तयोर्भोगस्य श्रावणात् । अतः परं तदेव वैशेष्यं सृष्टिदशायाममृतत्वादन्तर्यामिणि सर्वहृदयदेशवर्तिन्यस्तीति बोधनाये- दमधिकरणमारभ्यत इत्याशयेन विषयवाक्यमुदाहरन्ति य इमं चेत्यादि । श्रूयत इति रश्मिः । चाशनाया च पिपासा चाशनायापिपासे अशितुमिच्छा अशनायेति तट्टीकायाम् । अत्येत्यतिक्रामति । तद्वीति । ननु तर्ह्यस्यैव विषयवाक्यत्वापत्त्या कथमविरुद्धमिति चेन्न अधिकरणानां न्यायरूपत्वेनास्या- मपि तत्संचारादविरुद्धमित्याशयात् । अथ नन्विदं शिष्यवाक्यमस्तूक्तविषयवाक्ये न्यायसंचारोस्तु इति चेन्न । विनिगमनाविरहेणाचार्यसंगृहीतविषयवाक्यग्रहणात् । अतो नान्तस्तद्धर्माधिकरणेन विरुद्ध- मिति न दूषयामो न प्रकृतव्याख्याने दोषमुद्भावयामोऽनेनेति वा । तत्र शिवत्वेति तत्राधिकरणत्वांशे विषयवाक्यस्य विस्पष्टत्वेन विषयवाक्यराहित्याद्युक्तमेव दूषणम् । प्रहस्ते इति अत्रेशविश्वभुक्- पदाभ्यां शिवत्वनिगमने कृते प्रहस्तः पुरुषपदविचारे 'स्वरूपाख्यानमात्रातः' इत्यस्याः कारिकायाः अन्ते यत्तु पुरुषो ह वा इत्यादिना बहुत्वोक्तं अङ्गुष्ठमात्रपुरुष इति तु ब्रह्मवाचकमेव अङ्गुष्ठं च ......... नमस्तकेष्वप्याश्रितत्वसंग्रहात् । ब्रह्माण्डपुरुषापादतलमस्तकं व्याप्तित्वबोधनेनैकदेशपातालवासिकालाग्नि- रुद्रव्युदासात् विरुद्धधर्माधारत्वस्फोरणादितीति । ईशविश्वभुगादिपदानां प्रवृत्तिस्तु एवं सतीश- ईशानईश्वरसर्वेश्वरपरमेश्वरमहेश्वरशंभुशिवशंकरादयः पत्यपत्यादयश्च शब्दाः मुख्यवृत्त्या योगेन च परब्रह्मण्येव प्रवर्तमानास्तत्रैव योगरूढाः इत्यनेन प्रहस्तेनोक्तेति ॥ १७ ॥ इति पञ्चमाधिकरणम् ॥ ५ ॥ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥ भोगेति अक्षिपुरुषो ब्रह्म, विलक्षणभोगं वैशेष्यात् । आत्मवत् । यन्नैवं जीववदित्थमेवं भोगवैलक्षण्यसाधकम् । वाजेति । श्रुत्यर्थस्तु स्पष्टः । अमृतत्वादिति । अन्तर्यामी वैशेष्यवान् अमृतत्वादात्मवदित्यनुमानम् । अस्तीति तथा च पूर्वाधिकरणेन सहास्य प्रसङ्गसंगतिरिति बोधितम् । श्रूयत इति अन्तर्यामि-