अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 631, कुल 2600 में से
संदर्भ में पढ़ें५४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ६ सू० १८ भाष्यप्रकाशः । वाजिशाखिनां बृहदारण्यके श्रूयते इत्यादीत्यादिपदेनाबग्न्यप्याकाशवाय्वादित्यचन्द्रतारकदि- ग्विद्युत्स्तनयित्नुसर्वलोकसर्ववेदसर्वयज्ञसर्वभूतप्राणवाक्चक्षुःश्रोत्रमनस्त्वक्तेजस्तमोरेतआत्मान्तान्ये- वंविधानि वाक्यानि संगृह्यन्ते । एतेषु स्तनयित्न्वन्तानि दशाधिदैववाक्यानि । ततो यथायथमे- कैकमधिलोकाधिवेदाधियज्ञाधिभूतवाक्यम् । ततः प्राणादीनि दशाध्यात्मवाक्यानीत्येवं चतु- र्विंशतिः । स त आत्मेति माध्यन्दिनपाठे । काण्वपाठे त्वन्तरिक्षमधिकम् । आत्मस्थाने विज्ञानमुच्यत इति भेदः । ततः, 'अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्तर्याम्यमृतोऽतोऽन्यदार्तम्' इत्युपसंहारः । वाक्यार्थस्तु य इमं च लोक- मेतज्जन्मीनं देहं, परं च लोकं जन्मान्तरीयं देहं सर्वाणि भूतानि ब्रह्मादितृणस्तम्बान्तानि, अन्तरोऽभ्यन्तरवर्ती सन् यमयति दारुयन्त्रवद् आमयति स्वसमुचितव्यापारं कारयतीत्येवं कार्यद्वारा तं ज्ञापयित्वा, तत्स्वरूपप्रश्न उद्दालकेन कृत इत्युपक्रमे उक्त्वा याज्ञवल्क्यो- क्तमुत्तरं, यः पृथिव्यामित्यादिना कथयति । तत्र तादृशान्तर्यामिसत्तायां, 'भीषाऽस्माद् वातः पवते', 'एतस्यैवाक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठतः' इत्यादिश्श्रुतीः प्रमाण- त्वेनाभिप्रेत्याह यः पृथिव्यामित्यादि । तत्र यः पृथिव्यां तिष्ठन् सोऽन्तर्यामीत्युक्ते जडात् भेदसिद्धावपि पृथिव्यवस्थितेषु सर्वप्राणिष्वतिप्रसङ्ग इति तद्वारणाय विशिनष्टि यः पृथिव्या अन्तर इति । अभ्यन्तर इत्यर्थः । एवं बहिष्ठप्राणिवारणेऽपि तदन्तःस्थस्याभिमानिनो वारणं न संभवतीति तद्वारणार्थं विशिनष्टि यं पृथिवी न वेदेति । पृथिव्यभिमानिनी देवतात्मा यं न वेद न जानातीति । तेन तद्भिन्न इत्यर्थः । एवं जडाजीवाच्च भेदे सिद्धेऽपि तस्य तत्र स्थितेः किं प्रयोजनमित्याकाङ्क्षायामाह यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयतीति । 'गामाविश्य च भूतानि धारयाम्यहमोजसा' इति भूतधारणकार्यसिद्ध्यर्थं, सा शरीरम् । तन्नियमनं च तत्कार्य- सिद्ध्यर्थम् । अन्यथा तद्विसंमतौ कार्यं न सिद्ध्येदिति । अत्र द्वितीयमन्तरपदं नामधातुनिष्पन्नम्, रश्मिः । ब्राह्मणे श्रूयते । काण्वमाध्यन्दिनपाठभेदेन अबग्नीति आपश्चाग्निश्चाकाशश्च वायुश्चादित्यश्च चन्द्रश्चे- त्येवं समाहारद्वन्द्वः अधिदैवप्रतिपादकत्वात् ततः प्राणश्च स्तनयित्नुश्चेत्येवं द्वन्द्वः अध्यात्मप्रति- पादकत्वात् आत्मा अन्त आत्मान्ता तान्युक्तानि किं चैवंविधानि एतत्प्रतिपाद्यप्रतिपादकानि वाक्यानि । अधीति श्रुतिषु सर्वलोकादिपदानि अथाधिलोकमित्युपक्रम्य पठितान्यतोधि- लोकपराणि भाष्याभ्यस्याग्रे वक्ष्यमाणत्वादित्याशयेन सर्वलोकादिस्थलेऽधिलोकादिपदप्रयोगः । तदन्तःस्थस्येति पृथिव्य