भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 633, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 633

५४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ६ सू० १८

सर्वत्रैक एव, अथाधिदैवादिनामभेदाद् भिद्यत इति । सामान्यतस्त्वन्तस्तद्धर्मो- पदेशादिति न्यायेनाऽत्रापि ब्रह्मत्वं सिद्धमेव । तथा शब्दभेदात् संदिह्यते । अधिदैवादिषड्भेदा आधारधर्मा भगवत्युपचर्यन्ते, अथवा संज्ञाविशिष्टा अन्य एवेति । तत्र तत्तदधिकृत्य यो वर्ततेऽभिमानेन तस्य तादृशशब्दप्रयोगः ।

भाष्यप्रकाशः ।

भिद्यते वेति तद्बीजमित्यर्थः । नन्वन्तर्यामिणः पृथिव्याद्यन्तर्वर्तित्वस्यात्र कथनादन्तर्वर्तिनश्च ब्रह्मत्वस्यान्तस्तद्धर्मोपदेशादित्यत्र साधितत्वादत्र संदेह एव न घटत इति किमर्थमधिकरणारम्भ इत्याकाङ्क्षायां तदुपगम्य संदेहं समर्थयन्ति सामान्यत इत्यादि । तथा शब्दभेदादिति अधिदैवादिषड्भेदात् । कथं ततः संदेह इत्यत आहुः अधिदैवेत्यादि देवानां समूहो दैवम् । दैवे