भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 636, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 636

अज्ञानं धीसंदेहे संदेहवदुपपद्यते । 'देहोऽसवोऽक्षाः' इति न्यायाद्वा । न तु निषिद्धसंज्ञा भगवति कल्पयितुं शक्येति । एवं प्राप्ते, उच्यते । अन्तर्याम्यधिदैवादिषु । अन्तर्याम्यधिदैवादिषु भगवानैव । नान्य- स्तादृशो भवितुमर्हति । ननु चोक्तं भगवनि कथं निषिद्धकल्पनमिति । तत्राह । तद्धर्मव्यपदेशात् । तेषां धर्मास्तद्धर्माः । तत्प्रवृत्तिप्रयोजकाः । ते विशेषेण भग-

भाष्यप्रकाशः । अज्ञानं चेत्यादि । उक्तविधमज्ञानमपि, 'सो अङ्ग वेद यदि वा न वेद' इत्यत्र यथा संदेहः कल्प- नयोच्यते तथाऽत्राऽज्ञानमप्युच्यत इत्युपपद्यत इत्यर्थः । ननु तथापि ज्ञाने अज्ञानं काप्यदृष्टं कथं कल्पनीयमित्यतो हेत्वन्तरमाह देह इत्यादि । इदं षष्ठस्कन्धे दक्षस्तुतावस्ति । 'देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे' ॥ इति । अत्र मनवोऽन्तःकरणानि । अर्थस्तु देहादयो मात्रान्ता आत्मानं दृश्यं स्वरूपम्, अन्यमिन्द्रियवर्गदेवतारूपं न विदुः । यदुक्तं सर्वं तत्तन्मूलभूतान् गुणान् सत्त्वादींश्च पुमाञ्जीवो वेद । तज्ज्ञः पूर्वोक्तसर्वज्ञोऽपि सन् यमितोऽप्यधिकं सर्वज्ञं न वेद, तमनन्तं भगवन्तमहमीडे स्तौमीति । तथाच यथात्र देहादीनां जडतया योग्यताभावेनासम्भव- न्निषेधो नित्यानुवादस्तथा, यं पृथिवी न वेदेत्यादावपि पृथिव्यादिपदैर्जडपरामर्शाज्ज्ञाननिषेधो नित्यानुवाद इति तन्न्यायादुपपद्यत इत्यर्थः । ननु कुतोऽयमाग्रहः क्रियते, भगवत्संज्ञात्वमेव कुतो नाद्रियत इत्यत आह न त्वित्यादि । निषिद्धसंज्ञेति निषिद्धेनाभिमानेन कृता संज्ञा सा निकृष्टा । अनुत्कृष्टस्य उत्कृष्टत्वेनोपासनं दृश्यते, मनो ब्रह्मेत्यादौ, न तूत्कृष्टस्य निकृष्टत्वेन । अतः कल्पयितुमशक्येत्यर्थः । एवं पूर्वपक्षमुक्त्वा सिद्धान्तं व्याचक्षते उच्यत इत्यादि । अत्र तेष्वधिदैवादिपदेष्वन्तर्यामी भगवानैवोच्यते । न ह्यन्य एकः सर्वानुस्यूतो भवितुमर्हति । नन्वभिमानिष्वेताः संज्ञाः प्रसिद्धाः । भगवति तु नाभिमान इति निषिद्धस्याभिमानस्य कल्पनं कथं कर्तव्यमित्याशङ्कायां तद्धारणार्थंतत्प्रवृत्तिनिमित्तं सूत्रे आचार्य आह तद्धर्मव्यपदेशादिति । तेषां

रश्मिः । वर्तनमिति भावः । सोऽङ्गेति सोऽध्यक्षः प्रकृतिभावः सोऽङ्ग इति । कल्पनयेति यथा तद्विदि 'भवाङ्ग वेत्ति' इति प्रयोगः । काकुर्विपरीतलक्षणा वा द्वितीयञ्जभावात् । तथाच कल्प्यते द्वितीय- नञर्थो तया काका विपरीतलक्षणया वा सा काकुर्विपरीतलक्षणा वा कल्पना तया । योग्यतेति ज्ञानयोग्यताभावेन ज्ञानकर्तृत्वासंभवात् । नित्येति पूर्वतन्त्रे निषेधस्य प्राप्तिपूर्वकत्वं प्रसिद्धमयं तु अप्राप्तिपूर्वकोतो न निषेधोऽपि तु नित्यानुवादः स च नित्यप्रत्यक्षसिद्धस्यार्थस्यानुवादः । आग्रह इति अज्ञानोपपादनेनाभिमान्याग्रहः । मनो ब्रह्मेति 'मनो ब्रह्मेति व्यजानात्' इति तैत्तिरीयोपनि- षदि । न त्विति । उदाहरणाभावादिति भावः । ननु अथाध्यात्मं अधरा हनूः पूर्वरूपमित्यत्र पूर्वरूप उत्कृष्टे अधराहनुदृष्टिः कर्तव्येत्युदाहरणमस्ति । न । अथाधियौतिषमग्निः पूर्वरूपमित्यत्र स्पष्टम् ।- विधेयोद्देश्ययोः साम्यात् । हीनत्वेऽभेदानुपपत्तेः । ननु चेति भाष्यं विवरामासुः नन्वभीति । एता इति पृथिव्यादितदभिमानिवाचकपदप्रवृत्तिनिमित्तं तद्धर्मान् । आचार्या भगवान् व्यासः । तेषामिति भाष्यं विवरामासुः तेषामिति पृथिव्यादितत्तदभिमानिवाचकपदप्रवृत्तिनिमित्तं तद्धर्मस्त ।