अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 635, कुल 2600 में से
संदर्भ में पढ़ें५४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ६ सू० १८ भवेयुः । कल्प्यमानस्य सर्वानुस्यूतस्य तादृशस्य भगवद्व्यतिरिक्तस्यासंभवात् । तस्मादन्तर्यामिब्राह्मणं कुत्राप्ययुक्तं सत् तत्तदभिमानिदेवतास्तुतिपरमेव तत्तदुपासनार्थं भविष्यति । भाष्यप्रकाशः । संज्ञित्वेन कल्पनीयाः । कुतो नेत्यत आह कल्प्यमानस्येत्यादि । एते हि शब्दाः क्वचिद्वाक्य- संघाते, क्वचिच्च बहुवचनान्तसर्वलोकादिशब्दघटितवाक्यान्ते प्रयुक्ता इति तेषु तत्तत्संघानुस्यूत- स्याभिप्रेतत्वेन तादृशस्यापि क्वचित् प्रतिनियतत्वदर्शनेनात्र च तदनुक्त्या भगवदतिरिक्तस्या- भिमन्तुः संज्ञितयाऽत्र कल्पयितुमशक्यत्वेनासंभवादित्यर्थः । सिद्धमाह तस्मादित्यादि । तस्मादिति एतेषां शब्दानाम्धिकरणे वर्तने वैय्यर्थ्यस्य बाधकत्वात्, भगवति वर्तनेऽभिमानस्य बाधकत्वात्, संघाभिमानिनि जीवे वर्तने च तदनुक्तेर्बाधकत्वाऽधिकरणस्य भगवतोऽतिरि- क्तस्याभिमन्तुश्च तत्संज्ञित्वेन वक्तुमशक्यत्वे संज्ञोपजीविन उपचारस्यापि वक्तुमशक्यत्वादन्त- र्यामिब्राह्मणं पूर्वोक्तेष्वन्वेतुमयुक्तं सत् तथेत्यर्थः । नन्वेवमपि वक्तुमशक्यम् । तेषु वाक्येषु यं पृथिवी न वेदेत्यादिभिरुक्तस्यान्तर्याम्यज्ञानस्य श्रवणात् तस्य चाभिमानिधर्मत्वादित्यत आह रश्मिः । एव प्रवृत्तेरिति भावः । एते इति अधिलोकादयः । क्वचिदिति शिक्षोपनिषदि । अथाधिलोकमि- त्युपक्रम्य पृथिवी पूर्वरूपं, द्यौरुत्तररूपं, आकाशः संधिः, वायुः संधानं इत्यधिलोकम् । इत्येवं वाक्यसंघाते । एवमधिज्यौतिषादयो वाक्यानां संघातेषु प्रयुक्ता ज्ञेयाः । क्वचिदिति अन्तर्यामि- ब्राह्मणे । क्वचित्प्रतीति । शिक्षायां पृथिव्यादिषु प्रतिनियतत्वमधिलोकस्य । अग्निः पूर्वरूपमित्याद्यु- क्ताप्वादिषु ह्यधिलोकत्वाभावात् । अधिज्योतिषत्त्वस्य सत्त्वात् । इत्यधिज्योतिषमिति श्रुतेः । अत्रेति अन्तर्यामिब्राह्मणे । कुत्रापीत्यादि भाष्यीयं पदं व्याचख्युः अधिकरण इति । वर्तमान इति भावप्र- धानो निर्देशः । श्रौतीव्युत्पत्तिर्व्याकरणव्युत्पत्ती हृदिकृत्याहुः अधिकरणस्येति । भगवत इति षष्ठ्यन्तम् । अव्ययं विभक्तीति सूत्रेण समासेऽधिकरणत्वम् । दैवादिपदवाच्यत्वे भगवत्त्वम् । अति- रिक्तस्य सांनिध्याद्भगवत अतिरिक्तस्य एकादशाध्याये । 'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप' ॥ इत्यत्र । गीताप्रयोगस्य भगवद्वाक्यत्वेन छान्दसत्वात् । 'अतो रोरप्लुतादप्लुते' 'अति' इत्यस्य विकल्पाद् 'भोभगोअघो अपूर्वस्य योऽशि' इत्यनेन रोर्यादेशः 'लोपः शाकल्यस्य' इति सूत्रेण यलोपः । तत्सं- ज्ञित्वेनेति अधिदेवादि संज्ञाः सन्ति ययोस्तौ तत्संज्ञिनौ तद्भावेन संज्ञोपजीविनः संज्ञाशब्दकारिणः उपचारविशेषणम् । तथेत्यर्थ इति तथेति प्रकारवचने थाल् । तत्तदभिमानिदेवतास्तुतिपरमेव तत्तदुपासनापरत्वेन प्रकारेण भविष्यतीत्यर्थः । नन्वेवमिति पूर्वोक्तरीत्या भगवदादिषु सर्वेषु बाधकं विमर्शेणापि । अभिमानीति । अज्ञानस्य ज्ञानाभावरूपत्वेनाभावस्य प्रतियोग्यधिकरणवृत्तित्व- नियमेन ज्ञानस्य धर्मत्वस्फोरणद्वाराऽसतोप्यभिमानिधर्मत्वं यद्वा विष्णुपुराणे यदस्ति यन्नास्ति तत्सर्वं विष्णुरिति स्मरणात् यथाश्रुत एवार्थः । तथाच तदनुक्तेरिति हेतुरसिद्ध इति संघाभिमानिजीवे 544