भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 643, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 643

५५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ६ सू० १९ न च स्मार्तं, स्मृतिप्रसिद्धं स्मार्तं सांख्यमतसिद्धमिति यावत् । तादृशमन्तर्या- मिरूपमत्र भवितुं नार्हति । कुतः । अतद्धर्माभिलापात् । तद्धर्माणामनभि- लापात् । तद्विरुद्धधर्माणां चाभिलापात् । न ह्यत्र सत्त्वरजस्तमोगुणास्तत्कार्यं वा अभिलप्यते । तद्विरुद्धाश्चैते धर्मा, यस्य पृथिवी शरीरमित्यादि । तस्मात् सांख्यपरिकल्पितं नान्तर्यामिरूपमत्र भवितुमर्हतीति सिद्धम् । एवं सति ब्रह्मधर्मा एवैते भवन्तीति ब्रह्मवादः फलिष्यति ॥ १९ ॥ भाष्यप्रकाशः । तथाचोपनिषत्सु तादृशेश्वरत्वाभावेन श्रुतिविरोधभवनान्न कोऽपि पुरुषार्थः सिद्ध्येत् । अतः पूर्वपक्षन्यायेनान्तर्यामिब्राह्मणस्य प्रकृत्यभिमानिस्तावक्त्वं वा, सांख्यमतस्य श्रौतत्वं वाङ्गीकार्य- मित्याशङ्कां परिहरतीति । एवं सूत्रमवतार्य तदर्थं वदिष्यन्तो, देवतास्तुतिपरत्वस्याग्रिमसूत्रे निरसनीयत्वाद् द्वितीयमेव परिहरतीत्याहुः न चेत्यादि । नपुंसकप्रयोगं समर्थयन्ति अन्तर्या- मिरूपमिति । हेत्वंशं द्विधा व्याकुर्वन्ति तद्धर्मेत्यादि । के विरुद्धा धर्मा इत्यत आहुः तद्विरुद्धा इत्यादि । नहि महदादौ विद्यमाने तदभिमन्युव्यष्टिभूताः पृथिव्यादयः शरीराणि युगपद् भवितुमर्हन्ति । नच योगिवदिति वाच्यम् । गुणप्रधानभावगमकानुपलम्भात् । नापि गमकं कल्पयितुं शक्यम् । तद्धर्मानभिलापस्य बाधकस्योक्तत्वादिति स्फुटमग्रिमम् । रश्मिः । स्वप्रवचने योगसूत्रं 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या' इति द्वितीयपादे । स्यादितिभ्रंशः पृथिव्यादिसर्वनियामकस्येत्यर्थायितव्यम् । सर्वनियामकस्य ब्रह्मत्वे साधिते पुरुषार्थसिद्धेः सकलवादिप्रतिवादिमतसिद्धत्वात् । द्वितीयमिति सांख्यमतस्य श्रौतस्य श्रौतत्वं, स्मार्तमन्तर्यामीति विरुद्धलिङ्गत्वमाशङ्क्य स्मार्तमन्तर्यामिरूपमित्याहुः । नपुंसकेति । द्विधेति । 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः' ॥ इति षट्केषु भावविरोधाभ्यां द्विधा व्याकुर्वन्ति स्मेत्यर्थः । नव्यास्तु संसर्गाभावोऽन्योन्या- भावश्चेति द्वयं नञर्थः इत्याहुः तद्वहूनामसंमतं नव्यानां संमतमित्युपेक्ष्यम् । तर्काप्रतिष्ठित्वात् । 'तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः नैको मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः' ॥ इति भारतात् । भाष्ये । सत्त्वं च रजश्च तमश्चैतेषां समाहार इति समाहारद्वन्द्वः । तत्कार्यं सत्त्वरजस्तमसः कार्यं 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहंकारस्तन्मात्राण्युभयमिन्द्रियं स्थूल- भूतानि पुरुष इति पञ्चविंशतिगुणाः' इत्यादिसूत्रोक्तम् । प्रकृते । अमीति स्वराजः । समष्टिवर्तिनः अभिमानिन्युपचारार्थं तत्राहंकाराङ्गीकारात् । पृथिव्यादयः पृथिव्यबग्न्यादयोन्तर्यामिब्राह्मणोक्ताः । युगपत् एककालावच्छेदेन । न च योगिवदिति स्वशरीरलस्यान्यशरीरत्वं योगशास्त्रीयम् । गुणप्रधानेति पृथिव्यादिषु स्वीयपरकीयभावेत्यर्थः स्वकीयदेहः प्रधानः । कल्पयितुमिति सांख्यधर्मैः कल्पयितुं शक्यम् । स्फुटमग्रिममिति । भाष्ये । एत इति आत्मशामृतत्वान्तर्यामित्व- रूपाः । मात्रासंसर्गादानन्दिनोऽन्ये एवमहंकारसंसर्गादन्येऽहंकारिणोऽधिदेवतादय इत्यहंकारोपि नञ्धर्मः 552