भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 644, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 644

शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥ ननूक्तन्यायेन शारीर एव भवतु । को दोषः, किमिति ब्रह्मपरत्वं कल्प्यमिति । तत्राह । शारीरश्च । नेत्यनुवर्तते । शारीरश्च जीवो नान्तर्यामि- ब्राह्मणे तत्तदभिमानिरूपो, यस्य पृथिवी शरीरमिति वाक्यानुरोधेन भवि- तुमर्हति । ततोऽपि भिन्नतयाऽन्तर्यामिणो वचनात् । उभयेऽपि काण्वमाध्य- न्दिनब्राह्मणद्वयेऽपि एनं जीवं भेदेनैवाधीयते ब्राह्मणाः । निःसंदेहार्थमुभय- ग्रहणम् । यो विज्ञाने तिष्ठतीति काण्वाः । य आत्मनि तिष्ठतीति माध्यन्दिनाः । नचाऽऽत्मशब्देनान्यः संभवति । अन्येषां पूर्वमेव पठितत्वात् । अन्ते हि जीवमाह । तस्मादन्तर्यामिब्राह्मणे ब्रह्मैव वाक्यार्थ इति सिद्धम् ॥ २० ॥ इति प्रथमाध्याये द्वितीयपादे षष्ठमन्तर्याम्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाश