अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 645, कुल 2600 में से
संदर्भ में पढ़ें५५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ७ सू० २१ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥ ( १-२-७) मुण्डके हि श्रूयते । कस्मिन्नु भगवो विज्ञात इति पृष्टे, द्वे विद्ये वेदितव्ये इत्युत्तरमाह । तत्र नामरूपात्मकजगतो विज्ञानार्थं नामांशे वेदादिः । रूपांशे भाष्यप्रकाशः । अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥ पूर्वाधिकरणविषयवाक्ये, अमृत इति, अतोऽन्यदार्तमिति च कथनादन्तर्यामिणि सर्वहृद्देशवर्तिनि भोगवैलक्षण्यसाधकं वैशेष्यं दर्शि- तम् । सृष्टिदशायां नियामकत्वं चोक्तम् । तत्र पुनरदृष्टो द्रष्टेत्याद्युक्तम् । तत् कुत इत्याकाङ्क्षायां तत्र हेतुबोधनाय सृष्टिपूर्वदशायां सर्वाभावाभियामकत्वं न भविष्यतीत्याशङ्कायां च तदाप्यक्षरं नियमयतीति बोधनाय चोपोद्घातेनेदमधिकरणमारभ्यत इति प्रसङ्गरूपां संगतिं बोधयितुं विषयवाक्यमुदाहरन्ति मुण्डके हीत्यादि । अत्र सर्वा उपनिषद् विषयवाक्यतया ज्ञेया । इति पृष्ट इति अनेन वाक्येनैकविज्ञानेन सर्वविज्ञाने पृष्टे । इत्युत्तरमाहेति इत्यादिनात्तरमाह । किमुत्तरमाहेत्यपेक्षायामाहुः तत्रेत्यादि । तत्रेति उत्तरमध्ये तथाचैतद्विद्याद्वयं सर्वविज्ञानार्थ- रश्मिः । अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥ भोगेति सुखसाक्षात्कारो भोगः । वैशे- ष्यमिति सर्वरूपत्वमानन्दरूपत्वस्वकर्तृत्वरूपं वैशेष्यम् । अन्तर्यामी विलक्षणभोगवान् वैशेष्या- दात्मवत् । इतीदं भोगवैलक्षण्यसाधकम् । तत्रेति विषयवाक्योपसंहारे । तत्कृत इति अन्त- र्यामिणो भगवत्त्वेन सृष्टिपूर्वदशायां सत्त्वात् कैरदृष्ट इत्याकाङ्क्षायां तत्रादृष्टत्वे हेतुरक्षरे स्थितत्वे- नाक्षरेण रहः जीवभूताक्षरैरहर्हर्गमनेप्यदृष्टो मायासंबंधानन्तरं चादृष्ट इत्यदर्शनं दर्शनसमाना- धिकरणमुपपन्नमभावस्य प्रतियोगिसामानाधिकरण्यनियमादिति अक्षरकर्तृकं दर्शनं सृष्टिपूर्वकाले- ऽदर्शने हेतुः प्रतियोगित्वात्तदुक्तं गीतायां 'स्वयमेवात्मनाऽत्मानं वेत्थ त्वं पुरुषोत्तम' इति । पुरुषोत्तमाभेदस्याक्षरे वक्ष्यमाणत्वात् । तस्य बोधनायेत्यर्थः । उपोद्घातेनेति चिन्ता तावत्कृतं भोगवैलक्षण्यसाधकं वैशेष्यं दर्शितं तत्र पुनरदृष्टो द्रष्टेत्याद्युक्तम् । तत्सिद्धयर्थं तद्धेतुविषयिणी तामुपोद्घातं विदुर्भुधास्तेन । इति प्रसङ्गेति उपोद्घातत्वेन प्रसङ्गरूपां संगतिसामान्यलक्षणं क्षमते प्रसङ्गरूपं तल्लक्षणलक्षिते विशेषलक्षणकोपोद्घातत्वमस्त्येव । सावधानपुरुषः श्रुतिवक्ता तेन प्रयु- ज्यमानं वाक्यमदृष्टो द्रष्टेति तत्प्रयोजकतादर्शनरूपे हेतौ तदवच्छेदकत्वं दर्शनत्वं तेन दर्शन- त्वेन स्मृतसाक्षरकर्तृकदर्शनस्योपेक्षानर्हत्वमिति प्रसङ्गसंगतिरूपसामान्यलक्षणसंगमनम् । अत्र सर्वेति अत्र भाष्ये ब्रह्मविद्यायाः संशयकोटिलत्वेन ब्रह्मविद्याया सर्वोपनिषत्प्रतिपाद्यत्वमुपक्रमे स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहेति श्रुतेरुपसंहारे च तेषामेवैतां ब्रह्मविद्यां वदेत इति श्रुतेश्च । अनेनेति कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति वाक्येन इदं वाक्यं शौनकस्य । अत्र नु वितर्के कस्मिन्नित्यस्य किमः प्रश्ने प्रयोगात् प्रश्नविषय आश्चय इत्यर्थः । प्रश्नः किमर्थः । आश्रयो केरर्थः विषयविषयिभावः संसर्गः । पृच्छ ज्ञीप्सायां ज्ञानेच्छायाः सविषयत्वात् । भगवो भगवन् । उत्तरमिति द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितीतिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीति । अथ परा यया तदक्षरम- धिगम्यते इत्यादिनाङ्गिरा उत्तरमाहेत्यर्थः । अत्र वेदेत्यादीति परायां संदिखते न तु श्रुत्युक्ते प्रपाठे साङ्गत शारीरः आहोस्वित्परमेश्वरः इत्यथ परेत्यारभ्य धीरा इत्यन्ते संदिह्यते इत्यादि- 554