अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 646, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५५ परा च। तत्र वेदादिविद्यायां न संदेहः। परायां संविद्यते किमेषा सांख्यमत- विद्या ब्रह्मविद्या वेति। सांख्यधर्माभिलापात् संदेहः। 'अथ परा यया तदक्षर- मधिगम्यते, यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं, यद्भूतयोनिं परिपश्यन्ति धीराः' इत्यादि। अग्रे च, 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याऽभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रो अक्षरात् परतः परः' इत्युक्त्वा, 'एतस्माज्जायते' इति निरूप्य, अग्निमूर्धा चक्षुषी चन्द्रसूर्यावित्यादिना रूपमुक्त्वा पुनः पुरुषात् सृष्टिमाह। तत्रैकप्रकरणत्वादेकवाक्यता वक्तव्या पुनः तत्राक्षरपुरुषयोर्भेदः प्रतीयते। तयोरुभयोरपि सृष्टिः। तद् ब्रह्मवादे न संगच्छ