अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 647, कुल 2600 में से
संदर्भ में पढ़ें५५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ७ सू० २१ किंतु स्मृतिरेवेति । ब्रह्मविद्या वेदविद्या, उपचाराद्वेति । एवं प्राप्त उच्यते । अदृश्यत्वादिगुणकः परमात्मैव । ब्रह्मविज्ञानेनैव सर्वविज्ञानात् । तत एव विद्याया भाष्यप्रकाशः । परापरविभागमुक्त्वा तत उपनिषत्समाप्तावक्षरविद्यासमापने, तेषामेवैतां ब्रह्मविद्यां वदेतेति प्रकृतपरामर्शपूर्वकं ब्रह्मविद्यापदकथनाद् वेदविद्यापक्षो न साधीयानित्यत आह उपचाराद्वेति । एवं पूर्वपक्षमुक्त्वा सिद्धान्तं वक्तुं सूत्रं व्याचक्षते उच्यत इत्यादि । ब्रह्मविज्ञानेत्यादि एकविज्ञानेन सर्वज्ञानस्य ब्रह्मविद्यालिङ्गत्वम्, 'अपि वा तमादेशमप्राक्ष' इत्यादिश्रुत्यन्तरे सिद्धम् । प्रकृतेऽपि, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रश्नस्योत्तरत्वेनादृश्यत्वादिगुणकस्य ततः सृष्टेश्च कथनेन तद्विज्ञानादेव सर्वविज्ञानबोधनादक्षराधिगमकत्वादेव विद्यायाः परत्व- बोधनाच्च तल्लिङ्गमत्रापि दृश्यत इति स परमात्मैव, न तु प्रकृतिः । तद्विज्ञानेन पुरुषविज्ञानात् रश्मिः । प्रकृतिसंश्लिष्टपुरुषस्य । व्यष्टीनामियादीति तस्मादग्निः समिधो यस्य सूर्यः इत्याद्युक्त्याभ्यादि- व्यष्टीनाम् । नयेति सांख्यस्मृतित्वेन प्रकारेण सांख्योक्तपदार्थानां स्मृतिस्तत्पूर्वकं वेदान्तकरणात् स्मृतिरिव स्मृतिः । उपचाराद्वेतीति । उच्यत इत्यादीति ब्रह्मविद्यायामाधेयनिरूपकश्रुतिमी- मांस्योच्यते इत्यर्थः । यस्मिन् द्यौः पृथिवीत्याद्याधारनिरूपकश्रुतिमीमांसाया अग्रिमे पादे कर्त- व्यत्वात् एतावत्या मीमांसया द्वितीयं मुण्डकं समाप्तं तृतीये मुण्डके यदा पश्य इति श्रुतिमीमांसा साधनाध्याय तृतीयपादपञ्चमाधिकरणद्वितीयसूत्रेऽस्ति । नायमात्मा प्रवचनेन लभ्य इति श्रुति- मीमांसा साधनाध्याये लिङ्गभूयस्त्वाधिकरणेपि विद्यैवेति सूत्रेऽस्ति । ब्रह्मपदशक्यस्य प्रतिपाद- कतासंबन्धेन वेदे उपचारो लक्षणा तस्माद्वेति भाष्यार्थः । भाष्ये ब्रह्मविज्ञानेनैवेत्येवकारेणे- तरस्याः प्रकृतेर्व्यवच्छेदाद्विशेष्यसंगतैवकारोक्तेर्मवति जिज्ञासा । अदृश्यत्वादिगुणकः परमात्मे- त्यनुमितिः यथा पर्वतो वह्निमानित्यनुमितिः सा ब्रह्मविद्या तस्या एव लिङ्गं एकविज्ञानेन सर्ववि- ज्ञानम् न तु प्रकृतिविद्याया इत्यत्र किं प्रमाणमिति तत्पूर्वै श्रुत्यन्तरसिद्धब्रह्मविद्यालिङ्गिनी एकविज्ञानेन सर्वविज्ञानं लिङ्गमित्याहुः एकविज्ञानेति । अपि वेति विद्वन्मण्डनानुवादः तत्स्मर- णार्थः किं प्रयोजनमिति चेच्चिन्त्यम् । उत तमादेशमित्यत्र 'अपि वा तमादेशम्' इति पुस्तकान्तर- पाठो वा । श्रुतिः श्वेतकेतूपाख्यानस्य श्रुतिस्तु उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्यत्रैकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमित्यादिविद्वन्मण्डने स्फुटम् । हे श्वेत- केतो अप्राक्षः गुरुं प्रति पृष्टवानसीति श्रुतिस्थाप्राक्षः इत्यस्यार्थः । नचात्रापि प्रकृतिविद्यास्त्विति शक्यम् । तद्विज्ञानेन पुरुषविज्ञानादेकविज्ञानेन सर्वविज्ञानप्रतिज्ञासंन्यासरूपनिग्रहस्थानापत्तेः । अतः प्रकृतेपि श्रुत्यन्तरैकवाक्यतयैतद्ब्रह्मविद्याया एव लिङ्गमिति समर्थयांबभूवुः प्रकृतेपीति । भगव इति भगवान् । तत एवेति भाष्यं विवरामासुः अक्षराधिगमकत्वादिति । अथ परा यया तदक्षरमधिगम्यते इति श्रुतावक्षराधिगमकत्वस्य परविद्यालक्षणत्वात् । तल्लिङ्गमिति विद्यालिङ्गम् । अत्रादृश्यत्वादिगुणकः परमात्मा वेत्यत्र सोऽदृश्यत्वादिगुणकः । पुरुषविज्ञा- नादिति 'असङ्गोऽयं पुरुषः' इति कापिलसांख्यप्रवचनसूत्रेण 'न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्यो- गस्तद्योगादृते' इत्यनेन च । योगसूत्रेष्वपि 'क्लेशकर्मविपाकाशयैरपरामृष्टपुरुषविशेष ईश्वरः' 'तत्र निरतिशयं सार्वज्ञ्यबीजम्' 'पूर्वेषामपि गुरुः कालेनानवच्छेदात्' 'तस्य वाचकः प्रणवः' 'तज्जपस्तदर्थ- 556