अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 648, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५७ अपि परत्वम् । अक्षरस्यापि ब्रह्मत्वं पुरुषस्यापि । तयोः परापरभावः । अभेदश्च । एतादृश एव हि ब्रह्मवादः । तत्र प्रथममक्षरस्य ब्रह्मत्वमाह । भाष्यप्रकाशः । तद्विद्यया मोक्षाभावेन परत्वानङ्गीकाराच्च तथेत्यर्थः । अत्रापि धर्मोक्तेरेव हेतुत्वम् । नन्वत्राक्षर- पुरुषावुक्तावत उभयोर्विज्ञानेन तथात्वमुच्यते, न त्वेकविज्ञानेनेति नायं हेतुरित्यत आहुः अक्षरस्येत्यादि । एतादृश एव हीति अन्यथा पुरुषस्वरूपकथनस्य पादत्रयेणैव सिद्धेरक्षरात् रश्मिः । भावनम्' द्वितीयपादे 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः' 'अनित्याशुचिदुःखानात्मसु नित्यशुचि- सुखात्मख्यातिरविद्या' 'दृग्दर्शनशक्त्योरेकात्मतेवास्मिता' 'सुखानुशयी रागः' 'दुःखानुशयी द्वेषः' 'स्वरसवाही विदुषोपि तथारूढोभिनिवेशः' एवं चाविद्यायाः ख्यातिल्वेन तद्विज्ञाने आत्मख्यातिवि- ज्ञानात् तन्निवृत्तौ विशेषदर्शनसाध्यायां सत्यां पुरुषज्ञानेपि प्रकृतिविषयाऽज्ञानादित्यर्थः । परत्वेति प्रकृतिविद्यायां परत्वेत्यादिः । तथेति ब्रह्मविद्यायाः परत्वम् । विषयवाक्यप्रसङ्गा- त्स्मृते विद्यापरत्वेष्येष एव हेतुरित्याहुः अत्रापीति । अत्र ब्रह्मविद्यायाम् । धर्मोपदेशस्तावददृश्यादि- गुणकः परमात्मेत्यनुमितौ ब्रह्मविद्यात्वात् तद्विषयगतः सामानाधिकरण्यसंबन्धेनारोपितः यया तद- क्षरमधिगम्यत इति श्रुत्युक्तोऽक्षरविद्यात्वरूपो धर्मस्तदुक्तेरित्यर्थो वा । तथात्वमिति सर्वज्ञानमित्यत्र सर्वनिष्ठज्ञानरूपः प्रकार उच्यते । अयमिति सर्वविज्ञाने एकविज्ञानरूपो हेतुः । अक्षरस्येत्यादीति भक्तिमार्गत्वाद्वीताद्वादशाध्याये योगाख्ये । 'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः' ॥ इत्यर्जुनप्रश्ने । श्रीभगवानुवाच— : 'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेता ते मे युक्ततमा मताः ॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते' । इत्याद्युक्त्वा 'ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः' इति वाक्येभ्यः । तयोः परापरभावः ब्रह्मविदाप्नोति परमिति श्रुतिः अक्षरादपि चोत्तम इति गीतातः अभेदश्च ते प्राप्नुवन्ति मामेव इति गीतातः । येनाक्षरं पुरुषं वेद सत्यमिति श्रुतिः येन तत्त्वेन प्रोवाच तां तत्त्वतो ब्रह्मविद्यामिति उत्तरपादे तत्त्वमनतिक्रम्य ब्रह्मविद्यां प्रोवाचेत्यर्थाद्ब्रह्मविद्यायास्तत्त्वरूपत्वमिति न यत्तदोर्नित्य- संबन्धविरोधः । पादत्रयेणेति द्वितीयमुण्डके दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः अप्राणो ह्यमनाः शुभ्रः इति पादत्रयेण । क्षरात्परतोऽक्षरात्परः इति श्रुत्यर्थः । अत्रामूर्ताऽप्राणात्मनः पदैरन्नमयादिविभूतिभेदः प्रतीयते स बाह्याभ्यन्तर इति पदात् विज्ञानमयभेदः तादृशो दिव्योऽजः पुरुषः शुभ्रः आनन्दरूपममृतं यद्विभातीति श्रुतेर्गत्याया दिव्य आनन्दः । अत्र किंचिदुच्यते ब्रह्मस्वरूपत्वाच्छ्रुतेः हि विशेषे विशेषेणैकदेशितेनामूर्तः मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं ततो नभोवत् भेदो नात्यन्ताभावः तदङ्गीकारे तु मूर्तत्वावच्छिन्नप्रतियोगिताकाभाव इत्यर्थः । स च अन्योन्ये ऽप्यन्य इवेषा घाना भगव इत्याद्यामन्त्रिकां भिन्धीति भिन्ना भगव इति किन्तत्र प्रसन्नमिति न 557