भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 651, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 651

Here is the line-by-line transcription of the text from the image:

५६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ७ सू० २१ भाष्यप्रकाशः । मित्यक्षरविशेषणविरोधापत्तेः । न चाक्षरभावानन्तरं तद्विशेषणमिति वाच्यम् । तथासति पूर्वमक्षरस्य तथाभावे जन्यत्वापत्तेः । न चेष्टापत्तिः । अश्रौतत्वात् । अतस्तथात्वस्य नैसर्गिकत्वं मन्तव्यम् । रश्मिः । इति पाठः तत्राद्यः क्षरः सर्वभूतात्मको भवति ततः परतरः पर इत्यक्षर उक्तः परतमः पुरुषोत्तमो भक्तमनोरथपूरकोस्त्वेव तमब्विधायकव्याकरणप्रामाण्यात् । तथा चाक्षरसृष्टिनिरूपणानन्तरं पुरुष- निरूपणेपि चतुर्थपादे पुरुषस्याक्षरपरत्वोक्तेः सृष्टिकथनोत्तरमित्यादि न शङ्क्यम् । पूर्वमिति सर्व- कारणेभ्यः पूर्वम् । अश्रौतेति सत्यं ज्ञानमनन्तमिति श्रुतौ सत्यत्वप्रतिपादनात् सत्यमबाधितमिति गोपालतापिनिये त्र

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 651, कुल 2600 में से · BharatKosha