अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 652, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। न चैवं रूपभेदस्य नैसर्गिकत्वेनाद्वितीयश्रुतिविरोधापत्तिरिति वाच्यम् । एवं भेदभावेऽपि द्वितीयत्वानङ्गीकारात् ब्रह्मत्वेनाभेदात् । ब्रह्मणश्च विरुद्धधर्माश्रयत्वेनैवंभावेऽप्यभेदानपायात् । इदं च अहिकुण्डलसूत्रे सेत्स्यति । नच पूर्ववद्वेति सूत्रोक्तन्यायेन सृष्टीच्छोत्पत्तिसमकालमेवेषदान- न्दतिरोभावात्तदानीमक्षरत्वं परापरभावश्चेति वाच्यम् । तथासतीच्छाया इवाक्षरस्यापि भवनं श्राव्येत, प्राणन्नेव प्राणो भवतीतिवत् ससृक्षुभक्षरं भवतीति चोच्येत । किंच पूर्ववद्वेत्येक- देशिमतेप्यरूपवदादिपञ्चसूत्रीसिद्धमेव प्राथमिकं रूपम् । तच्चादृश्यत्वादिगुणकमेवेति न तदानीं तस्य तादृग्भावापत्तिसिद्धिरित्यक्षरभावस्य नैसर्गिकत्वं विना न श्रुतीनां सामञ्जस्यम् । अत एव निबन्धेऽपि । रश्मिः। ङ्क्षिष्यञ्जात्सोमात् पर्जन्यो भगवानिन्द्रो द्वितीयोऽग्निः ओषधयः पृथिव्यां प्रसूताः तत्रौषधिभ्यः संभूते पुरुषाग्नौ तृतीये रेतःसहिते पुमान् रेतो योषितायामित्यादि स्पष्टम् । इति शंकरभाष्ये । नन्वेतावत्याधे- यधर्मनिरूपिकाविषयवाक्यमत्र द्वयं ब्रह्मविद्या सांख्यविद्या वेति संदेह उक्तः न त्वथ परा यया तदक्षर- मधिगम्यते यत्तददृश्यमग्राह्यमित्यादि धीरा इत्यन्ते विषयवाक्ये शंकराचार्यवत् किमयं अदृश्यत्वा- दिगुणको भूतयोनिः प्रधानं स्यादुत शारीर आहोस्वित् परमेश्वर इति संदेह उक्तस्तत्कुत इति चेन्नं शंकराचार्यमते संशयो न घटते उपक्रमोपसंहाराभ्यां ब्रह्मविद्यात्वनिश्चयेन तद्विषयस्य परमेश्वरत्वं न प्रधानत्वं नापि शारीरत्वम् । अस्माकं तूपक्रमोपसंहाराभ्यां ब्रह्मविद्यात्वनिश्चयेपि मन्दमध्यमयोः संदेहो भवेत् ब्रह्मविद्यैषा सांख्यविद्या वेति सांख्यधर्माभिलापात् । अतः संदेहोपपत्त्यर्थमारूपोपन्यासं सूत्र- मथ परेतारम्य स्वेच्छासृष्टिनिरूपकश्रुतिपर्यन्तं विषयवाक्यं यस्मिन् द्यौरिति श्रुतेराधारधर्मनिरूपि- कायाः पूर्वं युक्तमाधेयधर्मनिरूपकत्वात् । ननु नायं संदेहो घटते सांख्यधर्मापलापप्रसङ्गापत्तेः । इष्ट इति चेन्न सर्वविद्याप्रतिष्ठामिति ब्रह्मविद्याविशेषणात् सांख्यविद्यायाश्च सर्वविद्यान्तर्गतत्वात् । मैवं, सांख्यविद्याया सर्वविद्यान्तर्गतत्वाभावात् । 'मार्गास्त्रयो मया प्रोक्ताः' इति भगवद्वाक्यात् । तासु कर्मविद्या प्रथममुण्डके उक्ता 'मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके' इतिश्रुतेरत्र कर्मविद्या बहुधा सन्तताः तपःश्रद्धे ये ह्युपवसन्त्यरण्ये इत्यनया यतिवानप्रस्थविद्याश्चोक्ताः । द्वितीयमुण्डके कर्मविद्यां हित्वा ताः प्रथयांचक्रिरे यथा सुदीप्तात्पावकादित्यादिभिः । अत्र सांख्यविद्याभ्रमविषयसांख्यं सिद्धान्तेनोत्तर- कालीनबाधदर्शनात् । अत इति । तथा षष्ठ्या लुक् ईषद्वानन्दतिरोभावप्रकटानन्दत्वं प्रकारस्तस्य तु अवधारणेनास्यादृश्यत्वादिगुणकस्य भूतयोनेर्नैसर्गिकत्वं मन्तव्यम् । तथा तु असेति पदच्छेदः । अस्य भूतयोनेस्तथाप्रकारस्य तु निश्चयेन नैसर्गिकत्वं मन्तव्यमिति योजना । एवं भेदेति । पूर्वोक्तप्रकारकाभेदेपि नन्वक्षरत्वेन पुरुषत्वेन च भेदात् कथमभेद इत्यत आहुः ब्रह्मत्वेनेति । नन्वेतादृशमद्वैतं न युक्तम् । घटपटादीनामपि द्रव्यत्वेनाभेदात् तत्राहुः ब्रह्मण इति । एवं चेति तृतीयाध्याये सेत्स्यति द्वितीयपादे । व्यासपादोक्तमतान्तरेप्याहुः नच पूर्ववेति । सृष्टीच्छोत्पत्तीति पूर्ववद्वेति सूत्रे धर्मसृष्टीच्छास्थाने । श्राव्येत इति स ईक्षां चक्रे इतिवत्सोक्षरं चक्रे इति श्राव्येत । तस्येति सिद्धयोः । न श्रुतीनामिति वरेण्यं परं विज्ञानादित्युक्तात्तदेतदक्षरमिति श्रुतिः येनाक्षरं पुरुषं वेदेति श्रुतिः । सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मलक्षणलक्षितस्य यो वेद निहितं गुहायामिति ज्ञानं