अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 655, कुल 2600 में से
संदर्भ में पढ़ेंरश्मिः । भवत्येव । पटे ज्ञाते तन्तव इव 'तन्तुष्वङ्ग यथा पटः' इति श्रुतेः। न च विरुद्धो दृष्टान्तः कार्यज्ञानेन कारणज्ञानात् । कारणज्ञानेनैकविज्ञानरूपेण कार्यज्ञानस्य विवक्षितत्वादिति वाच्यम्। कार्यकारणवस्त्वै- क्यमर्शनोत्तरकालिककार्यज्ञाने कारणज्ञानत्वेप्यक्षतेः । न च कार्यं ब्रह्मेति ज्ञानवत् पटस्तन्तव इति प्रत्ययापत्तिरिति वाच्यम्। इष्टापत्तेः। आतानवितानत्वातिरिक्तस्य तन्तुभ्यः पटे विशेषाभावात् । अत एव श्रुतय एकविज्ञानेन सर्वविज्ञाने प्रकारप्रबोधिकाः । पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य । आविः संनिहितं गुहाचरं नाम महत्पदम् । अत्रैतत्सर्वमर्पितमेजत्प्राणन्निमिषच्च यत् । एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानां यदर्चिमद्यदणुभ्योणु च यस्मि