भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 656, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 656

विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ ननु पूर्वपक्षन्यायेन ब्रह्मविद्यारूपायामपि स्मृतिर्ब्रह्मविद्यैवास्तु । द्वे भाष्यप्रकाशः। विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ सूत्रमवतारयन्ति नन्वित्यादि । स्मृतिर्ब्रह्मविद्यैवेति । स्मृतिरेव ब्रह्मविद्येति योजना । अयमर्थः । पञ्चशिखवृत्तावव्यक्तपर्यायेषु रश्मिः । 'एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' ॥ इति श्रुतौ बुद्धेः करणत्वोल्लेखात् । हेतौ तृतीयापक्षेपि हेतोः सव्यापारत्वे करणत्वमस्त्येव करणत्वस्य सव्यापारनियतत्वात् । आत्मा मनसा संयुज्यते मन इन्द्रियेऽधितिष्ठति इन्द्रियम- र्थेन संयुज्यते ततः शब्दादिग्रहेण श्रावणं प्रत्यक्षं शृण्वन् श्रोत्रं भवतीति तथा च श्रुत्यन्तरं कठवल्ल्याम् । 'आत्मेन्द्रियमनोयुक्त

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 656, कुल 2600 में से · BharatKosha