अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 657, कुल 2600 में से
संदर्भ में पढ़ेंब्रह्मणी वेदितव्ये मूर्त्तं चामूर्त्तं चेत्यत्र विकारस्यैव ब्रह्मपदवाच्यत्वम् । अतः प्रकृतिपुरुषावेव वाक्यार्थ इति परिहरति । इतरौ न भवतो वाक्यार्थरूपौ । कुतः । विशेषणभेदव्यपदेशाभ्याम् । विशेषणभेदो व्यपदेशश्च ताभ्याम् । अदृश्य- त्वादयो गुणा न प्रकृतेर्भवन्ति । सर्वस्यापि तद्विकारत्वात् । न हि घटदर्शनेन मृद् दृश्यत इति वदितुं युक्तम् । ब्रह्मवादे पुनः सर्वभवनसमर्थत्वाद् ब्रह्मणि भाष्यप्रकाशः । नपुंसकलिङ्गस्याऽक्षरपदस्य पाठाद् योनिपदस्योपादानवाचकत्वाद् भूतयोनित्वमव्यक्तलिङ्गम् । अक्षरात् परत्वं च पुरुषलिङ्गम् । अतस्तत्सर्वं यत्कृत्य ब्रह्मविद्यात्वं न स्थापयितुं शक्यम् । कस्मिन् विज्ञात इति प्रश्नवाक्ये कस्मिन् मते विज्ञाते इत्यर्थस्य शक्यवचनत्वादेतस्य सर्ववि- ज्ञानस्य ब्रह्मविद्यालिङ्गत्वाभावात् । नापि ब्रह्मविद्येति समाख्यया । द्वे ब्रह्मणी इति श्रुत्या ब्रह्मपदस्य विकारेऽपि शक्तौ ग्राहितायां तस्या अप्यन्यथासिद्धत्वात् । लिङ्गापेक्षया पञ्चमत्वे- नातिदौर्बल्याच्च । अतो लिङ्गबलात् प्रकृतिपुरुषावेव वाक्यार्थ इति परिहरतीत्यर्थः । सूत्रं व्याकुर्वन्ति इतरावित्यादि । व्यपदेश इति व्यपदेशभेदः । आद्यं व्युत्पादयन्ति अदृश्येत्यादि । ननु ब्रह्मवादेऽप्ययं दोषस्तुल्य इति सोऽपि न वदितुं युक्त इत्यत आहुः ब्रह्मवाद इत्यादि । ननु प्रकृतावपि तथा सामर्थ्यमङ्गीक्रियते । अतः परिहारतौल्यान्नैतदपि रश्मिः । शङ्क्यम् । तेषां स्मृतीनां ब्रह्मविद्यास्मरणपूर्वकत्वाद्ब्रह्मविद्यात्वात् न चैवं वदसु शास्त्रेषु वेदान्त- सांख्ययोरेकत्वापत्तिरिति वाच्यम् । स्मार्तमतविद्यायाः श्रौतत्वे तात्पर्येण तयोरेकत्वानापादकत्वात् । लिङ्गेन निर्णिणीषन्त आहुः अयमर्थ इति । पाठादिति वेदान्ते कूटस्थोक्षर इति उक्त इति पुंलिङ्गा- क्षरशब्द इति भावः । भूतेति 'यद्भूतयोनिं परिपश्यन्ति धीराः' इत्यत्र भूतयोनिपदम् । अव्य- क्तेति 'प्रधानाज्जगज्जायते' इति कापिलसांख्यप्रवचनसूत्रात् । अक्षरादिति । अव्यक्तात्परत्वम् । 'असङ्गोऽयं पुरुषः' इति सूत्रात् । ब्रह्मविद्यात्वमिति स्मार्तमतनिरपेक्षब्रह्मविद्यात्वम् । तेन श्रुति- र्यद्यपि ब्रह्मविद्येति तथापि श्रुतिर्लिङ्गरूपेति नेयं लिङ्गबाधिका । द्वे ब्रह्मणी इति भाष्यं विवरा- मासुः नापीति । द्वे ब्रह्मणी इति श्रुत्या ब्रह्मविद्येति स्मार्तमतविद्यायां समाख्या यौगिकः शब्दः ब्रह्मण इति विद्येति च विद्यापदं प्रकृतिपदसमभिव्याहारात् स्मार्तमतविद्यावाचकं तया हेतौ तृतीया हेतुभूतया विकारे मूर्तामूर्तरूपे तस्याः समाख्यायाः अन्यथासिद्धत्वेन प्रकारेण बृहदार- ण्यके मूर्तामूर्तब्राह्मणे मूर्तं परिच्छिन्नपरिमाणकम् । अमूर्तं वायुश्चान्तरिक्षं च । ननु लिङ्गत्वं समा- ख्यात्वं च व्यधिकरणं कुतः समानाधिकरणकमत आहुः लिङ्गेति । पञ्चेति । श्रुतिलिङ्गवाक्यप्रकरण- स्थानसमाख्यानां प्रमाणानां पञ्चत्वेन । लिङ्गापेक्षया वाक्यप्रमाणयोर्दौर्बल्यम् । स्थानसमाख्ययोराति- दौर्बल्यं संनिहितत्वासंनिहितत्वाभ्यां तदुक्तमेतेषां समवाये पारदौर्बल्यमिति । सोपीति ब्रह्मवा- दोपि ब्रह्मणोऽभिन्ननिमित्तोपादानत्वेन सर्वस्यापि तद्विकारत्वमिव सर्वस्य ब्रह्मपरिणामत्वाद्धट- दर्शनेन मृद्दर्शनवत्सर्वपरिणामदर्शनेन ब्रह्मदर्शनापत्त्या न वदितुं युक्तः परिणामिनित्यत्वेनेति 'प्रधानाज्जगज्जायते' 'प्रकृतिपुरुषयोरन्यत्सर्वमनित्यम्' इति कापिलसांख्यप्रवचनसूत्राभ्याम् । 'प्रकृते-