भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 661, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 661

ब्रह्मभावे पुनर्विश्वकायस्यैतद्रूपम् । सूत्रविभागात् पुनर्मुख्योपपत्तिरेवेति सूचितम् । चकारेण श्रुत्यन्तरविरोध एकवाक्यता च सर्वेषां वेदान्तानामिति । तस्मादक्षर- शब्देन पुरुषशब्देन च ब्रह्मैव प्रोक्तमिति ब्रह्मविद्यैवेषेति सिद्धम् ॥ २३ ॥ इति प्रथमाध्याये द्वितीयपादे सप्तममदृश्यत्वाधिकरणम् ॥ ७ ॥

भाष्यप्रकाशः। प्राणादिसमष्टिसृष्टिमुक्त्वा तस्यैव रूपमग्निर्मूर्धेति मन्त्रे वदन्ती श्रुतिर्मन्त्रान्ते, एष सर्वभूतान्तरात्मेति केवलं परामृशति । ततोऽग्रे, तस्मादग्निः समिध इत्यादिभिर्व्यष्टिसृष्टिं वदतीति । इदं च न केवलस्य तन्मतीयास्य । तथा तैरनङ्गीकारात् । नापि केवलायाः । अन्तरात्मत्वोक्तिविरोधात् । अतः प्रकृतिपुरुषयोरन्यतरस्य न संभवतीति ब्रह्मवादे तु विश्वरूपत्वेन विश्वकायत्वस्यैवोक्तत्वा- दुपपन्नतरम् । अतो नात्र सांख्यगन्धोऽपीत्यर्थः । विशेषणभेदव्यपदेशरूपोपन्यासेभ्य इत्यनुक्त्वा यदत्र भिन्नं सूत्रमुक्तं तत्तात्पर्यमाहुः सूत्रेत्यादि । चकारेणेत्यादि । तथा चैतद्द्वयमपि तन्मतबाधकतया चकारेण संगृहीतमित्यर्थः । तेन सांख्यमतसिद्धे कार्येश्वरेऽतिव्याप्तिर्निवारिता । रामानुजाचार्यास्तु, यया तदक्षरमधिगम्यत इत्युपक्रान्तस्य भूतयोनेरक्षरस्यैव, यः सर्वज्ञः सर्वविदित्याग्रिमवाक्ये परामर्शादक्षरपदेन परमात्मैवोच्यते । 'अक्षरात् परतः परः' इत्यत्र तु पञ्चम्यन्तेनाऽक्षरपदेन भूतसूक्ष्ममचेतनमुच्यते । तथा चाक्षरादव्याकृतात् परः पुरुषस्तस्मादपि परः परमात्मैव अत्र गमकं तु भूतयोनित्वं परात्परत्वं रूपं च लिङ्गत्वात् । भूतसूक्ष्मस्याक्षरत्वं तु, अभूत इति वा, न क्षरतीति वा स्वविकारव्याप्या महदादिवन्नामान्तराभिलापयोग्यक्षरणाभावाद्वा

रश्मिः। स्यासङ्गस्य पुरुषस्य । मुण्डके केवलस्य पुरुषस्य केवलायाः प्रकृते रूपस्य निरूपयितुमशक्यत्वमाहुः यथेति । मन्त्रान्त इति अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्येति पादद्वयकथनानन्तरं ह्येष सर्वभूतान्तरात्मेति तुरीयपादरूपे मन्त्रस्यान्ते । व्यष्टिमिति द्विकर्मकोऽयं वदतिः । अनङ्गीति 'असङ्गोयं पुरुषः' इति सांख्यसूत्रात् । न संभव- तीति । न च 'सत्त्वरजस्तमःसाम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहंकारः अहंकारात् पञ्चतन्मा- त्राणि उभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशति गुणाः' इति सूत्रेण, 'संघातपरार्थत्वात् पुरुषस्य' इति सूत्रेण 'भावे तद्योगे तत्सिद्धिः' इति सूत्रेण च प्रकृतियोगे पुरुषस्य केवलस्य संभवतीति शङ्क्यम् । क्रमेण सृष्टौ महतो रूपसिद्धेः । प्रकृतिसंबन्धद्वारा महतो रूपसंबन्धस्य परंपरासंबन्धत्वेनान- ङ्गीकारात् । साक्षात्संबन्धेन रूपसंबन्धस्य विवक्षणात् । एतदिति श्रुत्यन्तरं तावत् 'येनाक्षरं पुरुषं वेद' 'तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः' इति । न हि तन्मते पुरुषः प्रकृतिर्न वा तन्मतेऽक्षरपदवाच्या प्रकृतिर्मनः किंतु महत्तत्त्वम् । 'आद्यं महदाख्यं तन्मनः' इति सांख्यसूत्रात् स्वमते सर्वेषां वेदान्तानां पुरुषप्रकृतिव्युदासेन शास्त्रान्तरपरतया ब्रह्मणि एकवाक्यता । ब्रह्मणि वक्तव्ये वाक्यानां एकं वाक्यं तस्य भाव एकवाक्यता महावाक्यमेकं भवतीति । कार्येश्वर इति विश्वकायत्वं पुरुष- लक्षणं दिव्यो ह्यमूर्त इति श्रुतेः । तत्कार्येश्वरेऽतिव्याप्तं सातिव्याप्तिस्तेन तन्मतबाधकेन श्रुत्यन्तर- विरोधेन मुण्डके कार्येश्वरप्रतिपादनाभावान्निवारिता । इदं रूपमेकज्ञानेन सर्वविज्ञानार्थं युक्तस्य मध्ये उक्तम् । अन्यथा पुरुषविद्या न स्यादेकविज्ञानेनेति । महदिति । महतो नामान्तराभिलापयोग्य- क्षरणं मन इति नामान्तरेण तच्छास्त्रान्तरीयम् । अतो न नामान्तराभिलापयोग्यक्षरणाद्भेद्यः ।