अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 662, कुल 2600 में से
संदर्भ में पढ़ेंयोगेन कथंचिदुपपद्यत इत्याहुः । तत्रेदमेवावेक्ष्यम् । गीतायां द्वादशे । 'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः' ॥ इति प्रश्नेन तदुत्तरेण चाक्षरपुरुषोत्तमयोरेक्यमवस्थाभेदेन भिन्नत्वं च बोधितम् । ततः पञ्चदशे, 'द्वाविमौ पुरुषौ लोके' इति संदर्भे अक्षरपुरुषादुत्तमत्वं स्वस्योक्तम् । श्वेताश्वतरश्रुतावपि, क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एक इत्यक्षरस्यात्मत्वं देवस्य क्षराक्ष्रेशितृत्वं चोक्तम् । अत्राप्यक्षरस्य पुरुषत्वं पूर्वमुक्त्वा अक्षरात् परत्वं पुरुषस्य यदुच्यते तेन गीताद्युक्त- रीतिकमेवाक्षरपुरुषयोः स्वरूपं ज्ञाप्यते । न तु तदक्षरमतिहाय भूतसूक्ष्मरूपम् । प्रकृतहानाप्र- कृतकल्पनयोः प्रसङ्गात् । नच परत इति पञ्चम्यन्तवैयर्थ्यम् । एतस्याक्षरविशेषणत्वेनोपपत्तेः । सांख्ये प्रधानस्याप्यक्षरपदवाच्यत्वेन तद्व्यावृत्तावश्यकत्वादिति । भास्कराचार्यास्तु, परत इति पदमक्षरविशेषणत्वेनाङ्गीकुर्वन्ति । अक्षरपदं चात्र प्रधानबोधकमङ्गीकुर्वन्ति । रूपं च कारणात्मनः कार्यात्मनावस्थितस्येति चाहुः । शङ्कराचार्यास्त्वग्निर्मूर्धेत्यादिनोक्तं रूपं परमेश्वरस्येति व्याख्याय, नेदं रूपं परमेश्वरस्य । जायमानमध्ये एतदुपन्यासात् । 'एतस्माज्जायते प्राणः' इति पूर्वं प्राणादीनां, 'तस्मादग्निः समिधो यस्य सूर्यः' इत्यनन्तरं च दर्शनात् । न च सर्वात्मत्वबोधनाय मध्ये पाठ इति युक्तम् । पुरुष एवेदं विश्वं कर्मेत्यस्य सृष्टिकथनोत्तरं वक्ष्यमाणत्वात् । अतो 'हिरण्यगर्भः समवर्तताग्रे' इति, 'स वै शरीरी प्रथमः' इति श्रुतिस्मृतिभ्यां तस्यैव जायमानत्वशरीरित्वयोर्निर्णायनात् तस्यैवेदं रूपम् । न च सूत्रवैयर्थ्यम् । परमेश्वरप्रतिपत्तिहेतुतया तस्योक्तत्वादित्यन्ये मन्यन्त इत्याहुः । वाचस्पतिस्तु प्रकरणापेक्षया सन्निधेर्निर्वलत्वात् प्रकरणाण एवेदं रूपमिति यद्यपि सिद्ध्यति, तथापि प्रकरणिनः शरीरैन्द्रियादिरहितस्य विग्रहवत्त्वाविरोधात् सिद्धे प्रकरणिनोऽसंबन्धे मूर्धादिश्रुतीनामत्यन्तविप्रकृष्टकरणापेक्षयाऽतिबलिष्ठत्वाज्जायमानमध्यपातित्वं जायमानग्रहणे रश्मिः । तत्रेदमिति क्षरात् परतोऽक्षरात्परः पुरुष इत्यर्थमनादृत्य अक्षरादव्याकृतात्परतः पुरुषात् परः परमा- त्मेति व्याख्याने इदं दूषणम् । उत्तरेणेति श्रीभगवानुवाच-मय्यावेश्य मनो ये मां नित्ययुक्ता उपा- सते' इत्यादिना उत्तरेण ते प्राप्नुवन्ति मामेव इत्यक्षरोपासका मां प्राप्नुवन्तीत्यक्षराभेदः स्वस्मिन्नुक्तः प्रश्ने च ये चाप्यक्षरमव्यक्तमिति मतेच्छयापि अव्यक्तत्वावस्थाधामत्वात् भक्तेच्छया भक्तमनोरथपूरण- रूपेण धामत्वा रसरूपावस्था पुरुषोत्तमत्वात् इत्यवस्थाभेदेन भिन्नत्वम् । पुरुषौ इति क्षराक्षरौ । अत्रापीति मुण्डकेपि । पूर्वमिति प्रथममुण्डकसमाप्तौ येनाक्षरं पुरुषं वेदेति श्रुतौ प्रथममुण्डके द्वितीयमुण्डकात्पूर्वं यथा भवति तथोक्त्वा । व्यावर्तकं हि विशेषणं तद्व्यावर्त्यमाहुः सांख्य इति । इति रामानुजमततत्समाधानसमाप्तौ । अङ्गीति । परत इति प्रधानविशेषणं कार्यात्परतः । रूपोपन्या- ससूत्रार्थमाहुः रूपं चेति । मध्ये उपन्यासमनुवादयामासुरेतस्मादिति । दर्शनादिति अग्निर्मूर्धा चक्षुषी इत्यस्य रूपप्रतिपादकस्य दर्शनात् । हिरण्यगर्भवाचकमत्र सर्वभूतान्तरात्मपदमित्याशये- नानुवादमाहुः अत इति । समवर्तत अजायत । प्रतिज्ञाविरोधमाहुः न चेति । प्रतिज्ञातसद्भावि- ज्ञानासंभवात् सूत्रवैयर्थ्यम् । परम्वेति परमेश्वरस्य ब्रह्मणः प्रतिपत्तिः कार्यकारण ज्ञानं तद्धेतुतया ।