अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 663, कुल 2600 में से
संदर्भ में पढ़ेंHere is the line-by-line Devanagari transcription for the provided page:
५७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २४ वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ ( १-२-८ ) अधिकरणत्रयेण भोगमुपपाद्य पूर्वाधिकरणे अदृश्यत्वादिगुणानुक्त्वा भाष्यप्रकाशः। कारणमुपन्यस्तं भाष्यकृतेत्याह । तन्मन्दम् । भाष्यकृता एतस्यान्यमतत्वेनेवोपन्यासात् । तदुपन्यासप्रारम्भे, अन्ये पुनर्मन्यन्त इति पुनः शब्देनास्य पक्षस्याभासत्वस्य स्वयमेवापादनात् । भाष्यकारस्यैवमभिप्राये तेन मूर्धादिश्रुतिरेव प्रमाणतयोपन्यस्येत । अतः सूत्रं भाष्यं च स्वाग्रहमात्रेण विरुन्धन्नतिपाण्डित्यं द्योतयतीति बोध्यम् । एतेनैव मैध्वमपि दत्तोत्तरम् । शैवस्तु पूर्वानुसार्येव । माध्वास्तु, 'अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया । तामक्षरं परं प्राहुः परतः परमक्षरम् । हरिमेवाखिलगुणमक्षरत्रयमीरितम् ।' इति स्काान्दादक्षरपदं त्रिष्वपि रूढमङ्गीकृत्य, अक्षरात् परतः पर इत्यत्र प्रकृतिरतः परं यल्लक्ष्मीरूपमक्षरं तस्मादपि परोऽदृश्यत्वादिगुणकोऽक्षरशब्दवाच्यः । पुरुषस्तदुभयभिन्न उक्तविशे- षणत्वादेव । यः सर्वज्ञ इत्यादिविशेषणात् प्रकृतिरतोऽपि भिन्नः । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायत इति नामरूपाद् ब्रह्मणः शब्दब्रह्मरूपाच्चतुर्मुखान्नेदेदं व्यपदेशाच्च विरञ्च्यः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इतीशान्यान्यत्वव्यपदेशाच्च रुद्रः । यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिमिति रूपोपन्यासाच्च न ब्रह्मरुद्रावित्याहुः ॥ २३ ॥ इति सप्तममदृश्यत्वाधिकरणम् ॥ ७ ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ एवमदृश्यत्वाद्यधिकरणेनान्तर्यामिणोऽ- दृष्टत्वेऽदृष्टयत्वरूपो हेतुः प्रसङ्गाद्दर्शितः । अतः परं प्रस्तूयमानाधिकरणस्य पूर्वोक्तसर्वोपपादकत्व- बोधनाय तत्प्रयोजनमाहुः अधिकरणत्रयेणेत्यादि । 'अत्ता चराचरग्रहणाद्' 'गुहां प्रविष्टावा- रश्मिः। विरुन्धन्निति अध्याहृतेन वाचस्पतिना सामानाधिकरण्याच्छतृप्रत्ययः । अतिक्रान्तं पाण्डित्यमति- पाण्डित्यं 'प्रादयो गताद्यर्थे प्रथमया' इति सूत्रेण समासः । यद्वाऽतिक्रान्तं पाण्डित्यं यस्यात्तादृशं स्वं वाचस्पतिम् । पूर्वेति रामानुजमतानुसार्येव । तदुत्तरेणैव दत्तोत्तरः । मगवान्कैवः । वीतशोक इति विगतः शोको यस्मादिति वीतशोको जीवः । न ब्रह्मेति ब्रह्मरुद्रयो रक्तकृष्णरूपत्वात् । इत्याहुरिति आहुरित्यनेन स्वरसस्तु पुराणमतमेतत् । स्काान्दं तामसमिति सूत्रस्य पौराणार्थतामसार्यप्रतिपाद- कतापत्तिः । रूपोपन्याससूत्रे चेशस्य पुरुषं ब्रह्मणो द्रुहिणस्य योनिमिति षष्ठीसमासे ईशं पुरुषमिति पाठस्य विरोधः ॥ २३ ॥ इति सप्तममधिकरणम् ॥ ७ ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ पूर्वोक्तेति इदं समाप्तौ स्फुटम् । पूर्वोक्तस्य जगज्जन्मादिकर्तृत्वस्य निष्कलं निष्क्रियं शान्तमित्युक्तेऽसंभवात् समवायित्वंस स्वां- शांतप्रत्यसंभवात् विरुद्धानां सकलत्वादीनां स्वस्मिन् सत्तां साकाराणामंशानां च विरुद्धधर्मा- श्रयत्वसाकारब्रह्मत्वाभ्यामेवोपपादनात्पूर्वोक्तं सर्वमभिन्ननिमित्तोपादानत्वं तस्य साकारब्रह्मत्वं- 572