अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 664, कुल 2600 में से
संदर्भ में पढ़ेंप्रसङ्गाद्रूपमुपन्यस्तम् । अधुना साकारब्रह्मतामुपपादयितुमिदमधिकरण- मारभते । को न आत्मा किं ब्रह्मेति, आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहीति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोग- मेकैकोपासननिन्दया च मूर्धादिभावमुपदिश्याम्नायते । भाष्यप्रकाशः । त्मानौ हि तद्दर्शनात्' 'अन्तर उपपत्तेः'इत्यधिकरणत्रयेण वैशेष्यबोधनात् त्रिविधं भोगमुपपाद्या- न्तर्याम्यधिकरणे तद्वैशेष्यमन्तर्यामिणि निगमयित्वा, अदृश्यत्वाधिकरणे तस्यादृष्टत्वोपपाद- कान् अदृश्यत्वादिगुणानुक्त्वा रूपाभावादेवाद्दश्यत्वादीति शङ्कानिरासायान्तरात्मनस्तत्प्रसङ्गाद्रूपमु- पन्यस्तम् । परमात्माक्षरयोरभेदः परापरभावश्चोक्तः । तत् तदा संगच्छते, यदि ब्रह्मणः साकारता वास्तवी स्या