भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 665, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 665

५७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २४ भाष्यप्रकाशः अभिन्नो भिन्नो वेति संशयो न तेषां विचारबीजं, किंत्वस्मदुपास्य आत्मा कः, किं ब्रह्म, तदेक- देशो वेति संशयो विचारबीजमित्यनुपदमेव व्युत्पादयिष्यामः । यदत्र कैश्चिद् व्याख्यातम् । आत्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वाद् ब्रह्मेत्यध्या- त्मपरिच्छिन्नमात्मानं निवर्तयत्यात्मेति चात्मव्यतिरिक्तस्यादित्यादिब्रह्मण उपास्यत्वं निवर्तयति । अतो, ब्रह्म चात्मैव, आत्मा ब्रह्मैवेत्यभेदेन सर्वात्मा वैश्वानरो ब्रह्म स चात्मेति फलिष्यतीति । तन्न । किमः आवृत्त्या वाक्यभेदस्य स्फुटत्वेन विशेषणविशेष्यभावप्रतीत्यनुदयादैतदुपपादनभूता- ग्रिमग्रन्थानुरोधेन तथाङ्गीकारेऽपि तत्रात्मन उपास्यत्वेनैव सिद्धतया तत्र प्रत्यगात्माभेदापाद- नस्यासंगत्वादिति । अतः पूर्वोक्तसंशय एव विचारबीजम् । मीमांसाफलं त्वग्रे वक्तव्यम् । ततः स्वविचारण्या तन्निश्चयमलभमाना उद्दालकनामानमन्यं वैश्वानरोपासकं संशयवारकत्वेन संभावितवन्तः । सर्वेऽपि तन्निकटे यदा गतास्तदा तेन विचारितम् । एते प्रश्नार्थमागता रश्मिः। संशयस्योपक्रमे मीमांसाया उक्तायास्तद्धटकत्वेनावक्तव्यत्वात् मीमांसायाः 'विषयो विशयश्चैव पूर्व- [L1