अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 666, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५७५ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति । तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिलोंमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचनमा- स्यमाहवनीय इत्यादि । भाष्यप्रकाशः । महाश्रोत्रिया अहमिव वैश्वानरोपासका नाहमेभ्योऽधिकोऽतोऽन्यमभ्यनुशासानीति । तत एवं निश्चित्य तद्वेचारं कैकेयमुपदिष्टवान् । ततस्ते षडपि कैकेयराजनिकटे गताः । तदा स राजा तेषां पृथक् पृथक् पूजां पुरोहितादिद्वारा कारयित्वा धनं दातुमारब्धवान् । यदा न जगृहुस्तदा, 'न