भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 668, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 668

तत्र संशयः । किं वैश्वानरशब्देन ब्रह्म प्रतिपादयितुं शक्यते, न वेति । अर्थस्यातिसंदिग्धत्वात् संदेहः । तत्रोपक्रमे ब्रह्मात्मपदप्रयोगोऽस्ति नान्यत् किंचित् । उपपादने त्वब्रह्मधर्मा एव । साकारस्य तु लोकन्यायेनाब्रह्मत्वम् । भाष्यप्रकाशः । विषयमुक्त्वा संशयाकारं तद्वीजं चाहुः किमित्यादि । अर्थस्येत्यादि च । कथमतिसंदिग्ध- त्वमित्यत आहुः तत्रेत्यादि । तद्वीजे विचार्ये । उपक्रमे विचाराकारकथने ब्रह्मात्मपदयोः प्रयोगोऽस्ति, को न आत्मा, किं ब्रह्मेति । तत्र किम आवृत्त्या वाक्यभेदावगमाद्विशेषणविशेष्य- भावाप्रतीत्या द्वयोः प्रकरणित्वमापाततः प्रतीयते । नान्यत् किंचिदन्यतरस्य प्रकरणित्वोप- पादकम् । अत उपक्रमस्य संदिग्धत्वादर्थस्यातिसंदिग्धत्वम् । अथाग्रिमग्रन्थे, कं त्वमात्मान- मुपास्स इति प्रश्नस्य दिवमेव भगवो राजन्नित्यादिप्रत्युत्तरादुपास्यसैवात्मनो विचारविषयत्वं, न प्रतीचोऽस्य । ततश्च समेत्येत्यस्य खलोपासकरूपप्रकाशनेन संविदं कृतवेत्यर्थात्, को न आत्मेत्य- त्रोपासकतया परामृष्टस्यैव विशेषजिज्ञासाबोधकं किं ब्रह्मेति वाक्यम् । तथा सत्युपपादनग्रन्थाद् ब्रह्मण एव प्रकरणित्वं निश्चीयत इत्युच्यते, तदापि तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजा इत्यादिरूपस्य तन्निष्कर्षग्रन्थस्य विचारे त्वब्रह्मधर्मा एव सिद्ध्यन्ति । सुतेजःप्रभृतीनां अन्यानामेवार्थानं मूर्धादिरूपत्वनिष्कर्षत् । नच । ‘यच्छब्दयोगः प्राथम्यं सिद्धत्वं चाप्यनूद्यता । तच्छब्दयोग औत्पर्य साध्यत्वं च विधेयता’ ॥ इत्यनूद्य विधेयलक्षणयोर्विचारे मूर्धादीनां सिद्धानामर्थानामन्द्यत्वस्य सुतेजआदीनां अन्यानां विधेयत्वस्य चावगमात् साकारस्य ब्रह्मणोऽवयवानां नित्यानामेव तद्रूपत्वं कल्पनयो- पदिश्यत इति न ब्रह्मत्वहानिरिति शङ्क्यम् । यतः साकारस्य तु लोकन्यायेनाब्रह्मत्वम् । विमतो वैश्वानरो न ब्रह्म । साकारत्वात् । द्युप्रभृतिलोकवदिति प्रयोगात् । अत एवमप्यर्थस्यातिसंदिग्धत्व- रश्मिः । मीयं होमद्रव्यमिति चिन्तयेत् इति श्रुत्यर्थः । तद्वीजमिति संशयबीजमुपक्रम आत्मब्रह्मपदं दिवमेव भगवो राजन् इत्याद्युपपादनग्रन्थश्च । विचाराकारेति मीमांसारूपे विचारे विषयसंश- याकारकथने । नान्यदिति भाष्यं विवरामासुः नान्यदिति । उपपादन इति भाष्यमवतारया- मासुः अथेति । प्रतीच इति प्रत्यगात्मनः । उपपादनेति स ग्रन्थस्तु दिवमेव भगवो राजन्नि- त्यादिः । साकारेति भाष्यमवतारयांबभूवुः न चेति । कारिकामाहुः यच्छब्दयोग इति । मूर्धादीनामिति ये मूर्धादयस्ते सुतेज आदय इत्यत्र मूर्धादीनां आत्मैवेदमग्र आसीत् पुरुषविधः इत्यादौ नित्यत्वेन सिद्धानां विधेयसुतेजआदिभ्यः प्रथमानां यच्छन्दयुक्तानां कारिकापूर्वार्धोक्तलक्षण- विशिष्टानामनूद्यत्वस्य जन्यानां साध्यानामनूद्यमपेक्ष्योत्तराणां तच्छब्दयुक्तानां विधेयत्वस्य । कल्प- नयेति गौण्या । लोकन्यायमाहुः विमत इति गौरश्वत्वादितिवद्बाधवारणाय विमत इति विशेषणम् । वैश्वानरो वेदान्तिमतापसिद्धमतो यदा भवति तदा पक्षः । पक्षे साध्याभावो बाघः । साध्यवदन्यत्त्वादि साध्यवन्तो गावस्तदन्यत्वमश्वेषु । वह्निरनुष्णो द्रव्यत्वादित्यत्र साध्यवन्तोबाद्यः तदन्यत्वमग्न्यादौ प्रकृते साध्यवन्तो द्युलोकादयः तदन्यत्वं वैश्वानरे इति बाघः । वैश्वानरस् विमत इति विशेषणे