अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 669, कुल 2600 में से
संदर्भ में पढ़ेंवैश्वानरो यद्यप्यग्नावेव प्रसिद्धस्तथापि पूर्वकाण्डसिद्धत्वाद्देवतात्मपरिग्रहो युक्तः । ततश्च, 'संवत्सरो वा अग्निर्वैश्वानरः' इति श्रुतेः संवत्सरस्य प्रजापतित्वाच्च हिरण्यगर्भोपासनापरमिदमिति गम्यते । ब्रह्मात्मशब्दावपि हि तत्रैव युक्ततरौ । तदुपासकस्यैवान्नभोजनत्वमपि सर्वत्र युक्तम् । प्रादेशमात्रत्वमपि मुख्यजीव- त्वादस्मदायपेक्षया स्थूलत्वाभिप्रायम् । विराडभिमानित्वाच्च लोकावयवत्वम् । वेदगर्भत्वादमिश्रयात्मकत्वमिति । तस्माद्धिरण्यगर्भोपासनापरमेवैतद्वाक्यं न भगवदुपासनापरमित्येवं प्राप्ते उच्यते ।
भाष्यप्रकाशः । मित्यर्थः । एवं संदेहबीजमुपपाद्य पूर्वपक्षमाहुः वैश्वानर इत्यादि । अग्निवैश्वानरो वह्निरिति कोशस्मृतेर्वैश्वानरशब्दो भूताग्नावेव प्रसिद्धः । तथापि पूर्वकाण्डे, विश्वस्मै अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्नित्याद्यवहः केतुत्वकथनेनोत्कर्षवत्तया सिद्धत्वाद् देवतात्मपरिग्रहो युक्तः। पूर्वकाण्ड एव, वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीरिति देवतात्मन्यपि सिद्धत्वात् । तत एवं देवतात्मपरिग्रहेप्राप्तावप्युत्तरकाण्डे वाजिनां बृहदारण्यके सप्तान्नब्राह्मणे, 'संवत्सरो वा अग्निर्वैश्वानरः' इति श्रावणात् तैत्तिरीयाणां बृहन्नारायणोपनिषदि 'प्रजापतिः संवत्सरः' इति श्रुतेः संवत्सरस्य प्रजापतित्वाच्च हिरण्यगर्भोपासनापरमिदं वाक्यमिति गम्यते । यद्यपि माण्डूक्यादौ, 'विश्वो वैश्वानरः प्रथमः पादः' इति श्राव्यते, तथापि तैजसो हिरण्यगर्भो द्वितीयः पाद इति श्रावणात् तत्परत्वमेव युक्तम् । तस्य च प्रज्ञानत्मकत्वाज्जीवसमष्टिरूपत्वाद् ब्रह्मात्म- शब्दावपि तत्रैव युक्ततरौ । तं योऽहंग्रहेणोपास्ते तस्य यथा क्रतुरितिन्यायेन तद्भावात् तदुपास- कस्यैव सर्वत्रान्नभोजनं युक्तम् । भोजनत्वमिति पाठे, भोजनत्वं भोक्तृत्वम् । नन्द्यादित्वाल्ल्युः । शेषमुत्तानार्थम् । एवं पूर्वपक्षमुक्त्वा सिद्धान्तं विशदीकुर्वन्ति उच्यत इत्यादि । हेतुं व्याकुर्वन्ति
रश्मिः । तु वह्निरूपवैश्वानरस्य द्युलोकसमत्वेन साध्यवत्त्वान्न बाधः । एवमिति उपपादनग्रन्थस्थले तन्निष्कर्ष- ग्रन्थोक्तावपि । एवमिति उपक्रमगतात्मब्रह्मपदाभ्यां दिवमेव भगवो राजन्निलाद्युपपादनग्रन्थसूर्धैव सुतेजा इत्याद्युपपादननिष्कर्षग्रन्थाभ्याम् । कोशेति बहुग्रन्थानुभवजन्यसंस्कारजन्यत्वादमरकोषः स्मृतिः । पूर्वेति आदित्यादिदेवाः विश्वस्मै भुवनाय वैश्वानरमग्निमादित्यं दिनव्यवहारार्थमह्नां केतुं चिह्नमकॄण्वन् कृतवन्त इत्यर्थः । देवतेति वैश्वानराजयतीति यास्कोक्तयोगसिद्धदेवतारूपपरिग्रहः । वैश्वानरेति हि यतो वैश्वानरो भुवनानां राजा कं सुखात्माभिश्रीरीश्वरः अभिमुखा श्रीर्यस्यातो वैश्वानरस्य वयं सुमतौ स्याम तत्सुमतिविषयाः स्याम अस्मद्विषया सुमतिस्तस्य भवत्वित्यर्थः । सिद्धत्वादिति वैश्वानरपदयोगस्स सिद्धत्वात् । युक्तमिति बहूनां श्रुतीनामनुग्रहस्य न्याय्यत्वात् । माण्डूक्ये तैजसपदस्यापि व्युत्पत्त्यन्तरसिद्धवैश्वानरे यथा कथञ्चित्प्राप्यत्वात् । आदिपदोक्तनृसिंहोत्तर- तापिनीयेप्येवं श्रुतिद्वयं तत्रापि पूर्ववत् । ब्रह्मात्मेतिभाष्यं विवरामासुः तस्य चेति । अत्र पक्षे विश्वव्या- क्यसंगतिमाह तं योऽहमिति । अहं ब्रह्मास्मीत्यहंग्रहेण । तद्भावात् हिरण्यगर्भभावात् । ल्युरिति कर्तरि ल्युः । भुनक्तीति भोजनस्तस्य भावो भोजनत्वं भोक्तृत्वमित्यर्थः । शेषमिति तथाहि अस्मदादीति बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरोपि दृष्टः । अङ्गुष्ठमात्रो रवितुल्यरूपः कामाहंकारसमन्वितो यः इत्यत्रोक्तं स्थूलत्वम् । मूर्धैव सुतेजा इति श्रुतिसंगतिमाह विराडिति । हृदयानिलादिश्रुते- 578