अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 672, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। इत्यादावपि तथैव सिद्धत्वाच्च । एवं सति, पुरुषौ चात्ममानवावित्यभिधानकोशेनान्यत्र शक्तिग्रहणेऽपि । 'तथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते । विना तं पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक् ॥ भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ॥ ब्रह्माद्याः सकला देवा यक्षगन्धर्वकिन्नराः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति' ॥ इति शिवतत्त्वविवेकलिखितत्वात्पुराणात् । 'स एव वासुदेवोऽयं साक्षात् पुरुष उच्यते । स्त्रीप्रायमितरत् सर्वं जगद् ब्रह्मपुरःसरम् ॥ स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः । प्रकृतिस्पर्शराहित्यात् स्वातन्त्र्याद् वैभवादपि' ॥ इति नृसिंहपुराणाच्च परस्मिन् ब्रह्मणि वासुदेवे एव मुख्यः । अतस्तस्य