अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 674, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ५८३ विश्वस्य जडस्य नरस्य जीवस्य च भगवदंशत्वेन देवतात्वाद् ‘देवताद्वन्द्वे च’ इति विश्वानरौ। तौ निवासो यस्येति, ‘तस्य निवासः’ इत्यण्, तेन परमेश्वर भाष्यप्रकाशः। तेन शंकरभास्कराचार्याभ्यां यद् व्याख्यातं, साधारणयोर्वैश्वानरात्मशब्दयोर्विशेषो द्युमूर्धत्वादिरुक्तसादिति। तद्धिरण्यगर्भसाधारण्यादसङ्गतमिति बोधितम्। ननु भवत्वेवं, तथापि वैश्वानरशब्दस्य कथं ब्रह्मणि समन्वय इत्याकाङ्क्षायां योगरूढ्येति बोधयितुं योगं बोधयन्ति विश्वस्येत्यादि। ‘विश्वो वैश्वानरः प्रथमः पादः’ इतिश्रावणाद् ब्रह्माण्ड- देहस्य विश्वस्य जडस्य तैजसो हिरण्यगर्भो द्वितीयः पाद इति श्रावणाञ्चरस्य तदन्तर्गतस्य मुख्य- जीवस्य च पादत्वे भगवदंशत्वेन देवतात्वाद्देवताद्वन्द्वे कृते ‘देवताद्वन्द्वे च’ इति सूत्रेणानङि जाते, विश्वानरौ। ततो निवासार्थेऽणि कृते तथेति तथेत्यर्थः। ‘तस्य निवासः’ इत्यण् इति पाठे तु, विश्वा- नरयोर्निवास इति विग्रहान्तरमपि बोध्यते। तथा सत्येकोऽर्थो विग्रहोपन्यासेनेतरश्च सूत्रोपन्यासेने- रश्मिः। तुरीयाध्यायसूत्रे वक्ष्यमाणत्वाद्भक्तमनोरथेन स्वसेव्यस्वरूपत्वे सामर्थ्याभावाभावात्। तदुक्तं तद्रूपं गोपालतापिनीये तरुणं गोपवेशमभ्राममिति। अत्र तु प्रादेशमात्रमभिविमानमिति ‘उक्षिसहस्रः पुरुषो भक्तमाकारयत्युत’ इति निबन्धे तरुणोपि व्रजे बालको भूत्वा क्रीडते पुरुषोत्तम इति कृष्णो- पनिषदि प्रादेशमात्रोपि। साधारणयोरिति वह्निजीवसाधारणयोः। बोधितमिति तथाच द्युमूर्ध- त्वादिधर्मेषु सौत्रस्य साधारणधर्मेषु विशेषादिति विशेषपदस्य शक्तिर्वक्तुमशक्येति भावः। वेदान्त- शब्दानां ब्रह्मपरत्वं प्रथमपादे उक्तम्। तेन वैश्वानरपदस्य विरुद्धधर्माश्रयत्वलिङ्गेन ब्रह्मत्वसिद्धावपि वृत्तिनिर्धारायाहुः ननु भवत्विति। योगरूढ्येति पङ्कजपदवत्। श्रावणादिति माण्डूक्ये नृसिंहतापिन्ये च। देवतेति उपलक्षणमेतत् ‘वैश्वानरं द्वादशकपालं निर्वपेत्’ इत्येकहविर्भागित्वेन श्रुतत्वात् देवतात्वस्य। कृत इति विश्वं च नरश्च विश्वनराविति कृते। अनङीति। ननु विश्व- नरयोः द्वन्द्वो दुर्लभ इतरेतरयोगाभावादिति चेन्न। जीवजडयोर्लोके प्रसिद्धसाहचर्याद् योगोस्तीति साहचर्यं च भिन्नयोरेवेति भेदो द्वन्द्वकारणं सोस्त्येवेति भेदस्य द्वन्द्वकारणत्वं नैयायिकसिद्धान्तमु- क्तावल्याम्। तौ निवास इति भाष्यं व्याचक्रुः तत इति। विरुद्धधर्माश्रयप्रसङ्गाच्च यस्य तौ निवास- स्तयोर्निवास इति विग्रहे तस्य षष्ठ्यन्तात् समर्थात् निवास इत्यर्थेऽण् इत्यण् इति भाष्यार्थः। अन्यथा चेष्टात्मककाले विमते काले वा वैश्वानरपदप्रयोगः स्यात्। न च पङ्कजादिपदवत् ब्रह्मणि रूढिरप्य- स्तीति शङ्क्यम्। ‘ये धातुशब्दा यत्रार्थ उपदेशे प्रकीर्तिताः। तथैवार्थो वेदराशेः कर्तव्यो नान्यथा क्वचित्’॥ इति रूढिनिषेधात्। अतस्तौ निवासो यस्य तादृशयोर्निवासयोर्निवास इत्यर्थेन काले प्रयोगः। जन्यमात्रं कालोपाधिरिति विश्वनरयोः कालनिवासत्वाभावात् पुरः पुरुष आविशदिति श्रुत्युक्तप्रविष्टनिवा- सत्वस्य विवक्षितत्वात्। तेनेति एवमर्थेन। नान्य इति कालादिर्नेत्यर्थः। अन्यत्रेति वह्न्यादौ। एवं भाष्यं व्याकृतम्। प्रकृते। सोस्य निवास इत्यणिति भाष्यपाठं मत्वाहुः निवासार्थ इति निवासः अर्थः संबन्धिवस्तु यस्य सौत्रषष्ठ्यन्तस्वेति निवासार्थस्तस्मिन्नर्थेऽणि कृत इत्यर्थः। तथेतीति विश्वा- नरो वैश्वानरस्त्वेन प्रकारेणेति तथेति वैश्वानर ईश्वरत्वेन प्रकारेणेत्यर्थः। तथा सतीति पाठद्वये ७४ ब्र० सू० २० ५८३