अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 675, कुल 2600 में से
संदर्भ में पढ़ें५८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २४ एव वैश्वानरो भवति, नान्यः । भगवदंशत्वादन्यत्रोपचारात् प्रयोगः । तस्माद् वैश्वानरः परमात्मा ॥ २४ ॥ भाष्यप्रकाशः। त्येवमपि विरुद्धधर्माश्रयत्वाय संगृहीतं भवतीति बोधितं ज्ञेयम्। यद्यपि निरुक्ते, वैश्वानरस्य सुमतौ स्यामेत्यत्र, विश्वाञ्नरानयति, विश्वं एनं नरा नयन्तीति वा, अथवा विश्वानर एवेति निरुक्ती- नामुक्तिः । सायणीये च विश्वेषां नराणां हित इति । अन्यत्रापि 'नरे च संज्ञायाम्' इति विश्व- पदस्य दीर्घं विधाय ऋष्यणा व्युत्पादनम् । तथाप्यत्र जीवजडव्यावृत्त्यर्थमेवाचार्यस्य प्रवृत्तत्वादेवं व्युत्पादितम् । ननु भवत्वेवं, योगरूढ्योः सर्वसाधारणत्वाद् व्युत्पादनमनतिप्रयोजनमिति शङ्कायामाहुः भगवदंशेत्यादि । तथा च पुरुषपदवदत्रा