अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 676, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५८५ भाष्यप्रकाशः । आविर्निबन्धना प्रशंसानिबन्धना वा गौणीत्यर्थः । सिद्धमाहुः तस्मादित्यादि । तस्मादिति । उक्तरीतिकान् विशेषात् सर्वेषां पदवाक्यानां तदनुगुणत्वादित्यर्थः । रामानुजाचार्यास्तु, विशेष्यत इति विशेषो विशेष्यमाणत्वम् । जाठरभूतदेवतात्मपरमा- त्मसाधारणस्य वैश्वानरशब्दस्य परमात्माऽसाधारणधर्मैर्विशेष्यमाणत्वादित्येवं सौत्रं हेतुं व्याख्याय रश्मिः । व्यञ्जनावृत्तिरञ्जनम् । 'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः' ॥ इति काव्यप्रकाशोक्तदिशा प्रकरणादिनार्थविशेषस्मरणाद्द्द्युमन्तराप्यादित्यादीनां तत्र तत्र प्रतिपाद्यता । यथा सशङ्खचक्रो हरिरित्यत्र हरतीति योगमात्रेपि शङ्खचक्रसंयोगाद्धरिपदवाच्यः कृष्णः न सिंहो नापीन्द्रो नापि कपिः । सैन्धवमानयेत्यादौ सैन्धवपदस्य योगरूढत्वे भोजनप्रकरणे लवणबोधो गमनप्रकरणेऽश्वबोधश्च न स्यात् । अतो योगमात्रं प्रकरणादिनाऽश्वलवणबोधवत् पुरुष- पदेन यौगिकेन प्रकरणादिनादित्यादिबोधवदत्रापि वैश्वानरेपि वेदान्तशब्दाभेदेनाग्निपरमात्मनो- र्योगमात्रेण बोध इति रूढिः आदिपदेनाव्युत्पत्तिपक्षे योगस्य च छायामात्रमाभासमात्रम् । वेदान्ते घटपटपदादौ घट भापणे घट चेष्टायां पट गतौ इत्यादिधातुभ्यो यौगिकार्था ये प्रतीयन्ते तेऽर्था घटपटादीनां सच्चिदानन्दात्मकत्वात् । लोके तु । 'लोके शब्दार्थसंबन्धो रूपं तेषां च यादृशम् । न विवादस्तत्र कार्यो लोकोच्छित्तिस्तथा भवेत्' ॥ इति पत्रावलम्बनात् घटपटपदादौ रूढिः सच्चिदानन्दात्मकत्वस्यानधीतिनामप्रत्ययाद्घटादिषु । घटादिषु चिदानन्दावाच्छन्नौ संदंशः प्रकट इति । ननु यत्र पुरुषपदप्रयोगः पुरा आसेति व्युत्पन्ने चक्षुः सूर्ये पुरुषपदं कथं पुरमुपतीति व्युत्पत्तेः पुरा आसेति व्युत्पन्ने सत्त्वात् सूर्यस्तपति मण्डलात् इत्यादिवाक्यादिति चेत्तत्राहुः वस्तुतस्त्विति । पुरुषत्वं वैश्वानरत्वं च जातिः प्रशंसा तु अवय- वितुल्योवयव इति सूर्यः पुरुषपदेन प्रशस्यते इति वेदान्तिमते तुल्यो वेदिप्रथाभिरित्यग्निः प्रशस्यते इति प्रशंसागुणस्यावयविवाचकपदार्थेनाधेयतासंबन्धात् लक्ष्यमाणसावयवे सूर्ये योगात् । प्रशंसागुणस्य वेदान्तिमते वाचकपदार्थेनाधेयतासंबन्धाल्लक्ष्यमाणस्य वेदिप्रथाग्नौ योगादुभयत्र प्रशंसानिबन्धना गौणीत्यर्थः । तदुक्तं काव्यप्रकाशे । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणतेति । उक्तेति सौत्र- हेतुकाद्विशेषात् विरुद्धधर्माधारत्वलक्षणात् । तदन्विति । विरुद्धधर्माधारत्वानुगुणत्वात् । अधुना साधारणशब्दाद्विशेषः साधारधर्मच्छन्द एव विशेषो नो वा । तस्मादित्यत्र द्वितीयपक्षेऽप्रतीतार्था- पेक्षयान्यचार्यव्याख्यानं श्रेष्ठं मन्यमानं प्रत्याहुः रामानुजेति । साधारणशब्दयोर्विशेषः साधारणशब्द- विशेषः तस्मादिति शंकराचार्यव्याख्यानमप्रतीतार्थमिति रामानुजाचार्यमतोपन्यासः कृतः । जाठरेति अयमग्निर्वैश्वानरो योयमन्तःपुरुषे येनेदमन्नं पच्यते इति श्रुतेर्जाठरसाधारणस्य तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोतीति श्रुतेः । घोषरूढे शब्दे 585