अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 684, कुल 2600 में से
संदर्भ में पढ़ेंकृत्रिमं वेति । अस्मिन् सिद्ध एव पूर्वोक्तं सिद्धं भवेदिति विचार्यते तत्रास्मि- न्नर्थे चत्वार ऋषयो वेदार्थचिन्तकाः प्रकारभेदेन । तत्र केवलं शब्दबलविचारका आचार्याः । शब्दार्थयोर्जेमिनिः । आश्मरथ्यस्तु शब्दोपसर्जनेनार्थविचारकः । केवलार्थविचारको बादरिरिति । आचार्यः पुनर्विचाराविचारयोर्दोषं पश्यन् विचारमपि वदँस्तेषामल्पबुद्धिख्यापनाय नामान्याह । तत्र जैमिनिरुभयबलविचारकः प्रथमं निर्दिश्यते । व्यापकस्य प्रादेशमात्रत्वे साक्षादपि कल्पनाव्यतिरेकेणापि स्वरूपविचारेणैवाविरोधं मन्यते जैमिनिः । आकाशवद् व्यापकं सर्वतःपाणिपादान्तं ब्रह्म । अत एव साकारत्वमनन्त-
भाष्यप्रकाशः । ज्ञेयः । ननु चतुर्भिः सूत्रैः सर्वसिद्ध्यधिकरणार्थे सिद्धे एतेषां सूत्राणां किं प्रयोजनमित्या- काङ्क्षायामाहुः अधुनेत्यादि । पूर्वोक्तमिति असाधारणभगवद्धर्मरूपं विरुद्ध