अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 685, कुल 2600 में से
संदर्भ में पढ़ें५९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २८ मूर्त्तित्वं ब्रह्मणः स्वेच्छया परेच्छया स्वभावतश्च विभक्तमिव । त्रयोऽपि नियतप- रिमाणाः । अनियतपरिमाणास्तु आकाशवत् परिच्छेदनिरूप्याः । तद्वृ- द्धिह्रासाभ्यां तथा भवन्ति । स्मृतावप्युक्तम् । भाष्यप्रकाशः। तदत्राप्यादरणीयम् । अन्यथाऽत्र विरुद्धधर्माधारत्वकल्पना प्रसज्येत । संभवति चार्थक्रमादरेण परिमाणाविरोधे तं प्रकारमतिहाय विरुद्धधर्माश्रयत्वकल्पनमयुक्तम् । तस्मिन् प्रकारे कथं संभव इति चेदित्थम् । 'आकाशवत् सर्वगतश्च नित्यः' इति, 'सर्वतःपाणिपादं तत्' इति श्रुतिस्मृत्यामेवंविधं ब्रह्मस्वरूपं सिद्धमतः स्वरूपबलादेव ब्रह्मणः साकारत्वमनन्तमूर्तित्वं च । 'यदेकमव्यक्तमनन्त- रूपम्' इति, 'पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः' इति श्रुतिस्मृतिभ्यां सिद्धम् । तच्च क्वचित्, बहु स्यामिति श्रुतेः स्वेच्छया, क्वचित्, 'यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय' इति वाक्यात् परेच्छया, क्वचित् पूर्वोक्तरीत्या स्वभावतश्च तं तं प्रति तत्तत्प्रकारको- पासनेन प्रकटीभवति । प्रणयस इत्यस्य तत्तद्गोचरत्वं प्रापयस इत्यर्थात् । न च रूपभेदे ब्रह्मभेदः शङ्क्यः । यदेकमिति श्रुतेः 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति च गीतावाक्यात् । अतः पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितमिति त्रयोऽपि प्रकारा नियतपरिमाणाः । यदि चाकाशव- दिति श्रुत्या विचार्यस्तदा ते अनियतपरिमाणा आकाशवत् परिच्छेदनिरूप्याः परिच्छेदक- वृद्धिह्रासाभ्यां नानापरिमाणा भवन्ति । ननु श्रुतौ पुरुषं पुरुषविधमित्यादिकं वैश्वानरविशेषणं, न तु प्रकाराणाम् । परिमाणं च द्रव्यधर्मो, न तु धर्मधर्मोऽतो नेदं युक्तमत आहुः स्मृतावित्यादि । उक्तमिति पुरुषत्वमुक्तम् । तथाच वैश्वानरस्यैव त्रिधा वर्तमानत्वान्नोक्ता- नुपपत्तिरिति सर्वमुपपन्नमित्यर्थः । तृतीयस्यानन्तरूपत्वं नियतपरिमाणत्वं च व्याकुर्वन्ति भूतेष्वित्यादि । पञ्चधेति ध्यानार्थं प्रादेशमात्र आश्रयार्थमङ्गुष्ठमात्रः स्वामित्वार्थमक्षिस्थितः फलार्थं सर्वदेहस्थित आनन्दमयो वैश्वानरः शिरसि प्रतिष्ठितः सर्वार्थ इति निबन्धोक्तपञ्चकार्यार्थे रश्मिः । पाठादवगम्यते कुतस्तत्प्रमाणत्वात् श्रुतेर्वेदस्य प्रमाणत्वादित्येवं प्रथमाधिकरणतृतीयवर्णक उक्त्वा द्वितीयाधिकरणे 'अर्थाच्च' इति सूत्रांशेनार्थक्रमात् सिद्धम् । अहश्छेति यवागूपाक इत्यर्थः । तदिति पूर्वतन्त्रसिद्धम् । पूर्वोक्तेति बहु स्यामिति श्रुत्युक्तप्रकारेण स्वभावः परिणामहेतुस्तत एव । प्रकटीति यथा 'अनि