भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 686, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 686

'विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः । प्रथमं महतः स्रष्टृ द्वितीयं त्वण्डसंस्थितम् ॥ तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते' । इति । भूतेषु पञ्चधा । उदरेऽङ्गुष्ठमात्रः । हृदये प्रादेशो मूर्धनि च मनसी- न्द्रियेषु चाणुः । चित्ते व्यापकः । एकस्याप्युपक्रमे सर्वेषु तथात्ववादो विभूतिर- भेदाय । तस्माद् वैश्वानरस्य पुरुषत्वात् सच्चिदानन्दरूपेणैव प्रादेशमात्रत्वं न विरुध्यते । अतः साकारब्रह्मवाद एव जैमिनेः सिद्धान्तः ॥ २८ ॥

भाष्यप्रकाशः । पञ्चभिः प्रकारैः । उदरेऽङ्गुष्ठमात्र इति 'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' इति श्रुतेस्तथा । स च, 'अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति' इति तैत्तिरीयश्रुतेरुदरे शरीर- स्थित्यर्थम् । प्रादेश इति प्रादेशमात्रः । स हृदये व्याख्यातः । मूर्धन्यग्रे वक्ष्यते । तत्र हृदि ध्यानार्थम् । शिरसि सर्वार्थम् । चक्षुषश्चक्षुरित्यादिश्रुतेस्तत्तन्नियमनार्थं तेषु तिष्ठन् मनःप्रभृतीनाम- णुत्वस्य वक्ष्यमाणत्वात् तदनुरोधेनाणुः । 'तत् सर्वव्यापकं चित्तमाकृष्य व्योम्नि धारयेत्' इति वाक्ये चित्तस्य व्यापकत्वोक्तेस्तत्र तिष्ठंस्तद्वृद्ध्यर्थं व्यापकः । ननु प्रादेशमात्रस्यात्र प्रकृतत्वात् तद्विचार एव कार्योऽन्यविचारस्य किं प्रयोजनमित्यत आहुः एकस्येत्यादि । एकस्य प्रादेश- मात्रस्याप्युपक्रमे सर्वभूतस्थेषु नानारूपेषु भगवत्त्ववादो विभूतिरूपस्य भगवदभेदं बोधयितुम् । तथाच वैश्वानररूपे विचारितया दिशा सर्वेषु विरुद्धधर्माधारत्वं बोध्यमिति व्यासाशयप्रकट- नायायं विचार इत्यर्थः । तेन सिद्धमाहुः तस्मादित्यादि । पुरुषत्वादिति आत्मत्वात् । 'पुरुषौ चात्ममानवौ' इति कोषात् । तथाचाकाशवदित्यादिश्रुतिद्वयोक्तरीत्या स्वरूपविचारेणैव परिमाणद्वयाविरोधो जैमिनिमत इत्यर्थः । ननु जैमिनिमते साकारवाद इत्यत्र किं मानमित्या-

रश्मिः । द्वयोः स्थाने विशेषांशाहुः उदरेति । निष्ट्या इति निष्ठिर्ग्रीवाबन्ध इति सायणीये । तस्या अधोवितस्तिपरिमाणान्ते नाभिसमीपे तदुपरि तिष्ठतीति । नाभ्यामिति सामीप्ये सप्तमी । उदर इति इदं पदं हृदङ्गुष्ठयोरुपलक्षकम् 'अङ्गुष्ठमात्रः पुरुषः सदा जनानां हृदये संनिविष्टः' इति काठक- श्रुतेः 'अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्' इति तैत्ति- रीयश्रुतेश्च । आश्रयार्थमङ्गुष्ठमात्रो व्याख्यातः । शरीरेति अयं फलार्थमित्यर्थः । शरीरस्थित्यर्थं सर्वदेहस्थितः आनन्दमय इत्यर्थः । व्याख्यात इति स्मर्यमाणमिति सूत्रे व्याख्यातः । अग्रे इति 'आमनन्ति चैनमस्मिन्' इति सूत्रे भाष्यव्याख्यायाम् । तत्रेति हृन्मूर्ध्नोः । हृदीति केचि- त्स्वदेहान्तरिति स्मृतेः । सर्वार्थमिति 'स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु अन्नमत्ति' इति विषयवाक्यश्रुतेः सर्वार्थम् । मनसीत्यादि भाष्यं विवरामासुः चक्षुष इत्यादि । वक्ष्यमाणेति द्वितीयाध्यायेऽणुश्चेति सूत्रे । इति वाक्य इति एकादशस्कन्धचतुर्दशाध्याये किं च छान्दोग्य उपकोसलविद्यायां 'य एषोऽक्षिणि पुरुषो दृश्यते' इत्युपक्रम्य वामनी भामनीत्युक्तं तत्र कर्मफलनि- यामकत्वात् स्वामित्त्वम् । सर्वेष्विति विभूतिरूपेषु । श्रुतिद्वयेति आदिना 'अणोरणीयान् महतो महीयान्' 'प्रादेशमात्रमभिविमानम्' इति श्रुतिद्वयम् । पदवाक्यानां शक्त्यार्था निर्णीतास्तत्र जैमिनिमते

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 686, कुल 2600 में से · BharatKosha