अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 687, कुल 2600 में से
संदर्भ में पढ़ें५९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २९ अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥ निराकारमेव ब्रह्म मायाजवनिकाच्छन्नं तदपगमेन पुरुषाकारेणाधिदै- विकदेवताधिष्ठितेनाभिव्यक्तः पुरुषोऽन्तर्यामी । अत एव पुरुषविध इति । अभिव्यक्तेर्हेतोः साकारत्वमपि मायापगमनकृतत्वान्न स्वाभाविकत्वम् । तथापि निर्दिश्यमानं सच्चिदानन्दरूपमेवाश्मरथ्यो मन्यते ॥ २९ ॥ भाष्यप्रकाशः । काङ्क्षायां, जैमिनीयचतुर्लक्षणीसमाप्तौ, 'स विष्णुराह हि', 'तद् ब्रह्मेत्याचक्षते तद् ब्रह्मेत्याचक्षते' इति सूत्रद्वयात् तदनुसारेणाहुः अत इत्यादि । अत इति एवमुभयबलविचारकत्वात् । इदं च सूत्रद्वयं शतदूषणीकृता व्यंकटाचार्याभिधेन स्वग्रन्थ उपन्यस्तम् ॥ २८ ॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥ एतदादिषु त्रिषु सूत्रेष्वविर