अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 689, कुल 2600 में से
संदर्भ में पढ़ें५९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० ३१ संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥ जैमिनिमते साकारवादे नियतसाकारं मन्यमानस्तदेकदेशी नियतमेव प्रादेशमात्रं भगवद्रूपं मन्यते । तन्निराकरणाय सर्वत्र प्रादेशत्वं संपत्ति- कृतमित्याह । भाष्यप्रकाशः। संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥ ननु पूर्वं जैमिनेर्मतं प्रदर्शित- मधुना प्रकारान्तरेण किमिति प्रदर्श्यत इत्याकाङ्क्षायामाहुः जैमिनिमत इत्यादि । परममह- त्वपरिमाणप्रादेशमात्रयोः साक्षाद्विरोधबोधके जैमिनिमते यः साकारवादस्तस्मिन् य एकदेशी ईदृशं भगवत्स्वरूपं मन्यते । प्रादेशमात्रत्वस्य प्रदेशविशेषकृतत्वे तावन्मात्रस्य पुरुषाकारत्वाभावेन रश्मिः। ब्रह्मेति संशयापत्त्या बुद्धिसौकर्याभावादित्यर्थः । ननु तादृशं बहुरूपमेकरूपमेव ब्रह्मेति कथं बुद्धिसौकर्याभाव इति चेत्तत्राहुः तार्किकैरिति । तथात्वादिति यथाहूः रामकृष्णादिनामकं त्वाविर्भावतिरोभावशालीति । ज्ञानेच्छाप्रयत्नाश्रयत्वेन यथाकथंचिदभिनवमते विश्वकायत्वेन साका- रत्वेपि सकलसंमतत्वाभावात् । द्युमूर्धत्वादिविशिष्टस्य ब्रह्मत्वाङ्गीकारेऽभिनवमतप्रवेश इति भावः । युक्तीति 'युक्तिर्न्याये च योजने' इति विश्वाध्यायशास्त्रानुरोधेन योजनमारोपापवादेन श्रुतीनामिति तदनुरोधेन वा ब्रह्मवाद इति । साकारं व्यापकं ब्रह्मेति वादो ब्रह्मवादः सोपि निराकारस्य चिन्तनवशा- द्रूपमाविर्भूतं नतु तात्त्विकं रूपमित्येवमन्यथानये इति हि युक्तार्थं मन्यत इत्यर्थः । तथा च श्रुति- वाक्ये स्तः 'यस्तर्केणानुसंधत्ते सधर्मं वेद नेतरः' इति श्वेतकेतूपाख्याने च न्यग्रोधफलमाहरेत्यारभ्य एतमणिमानं न निभालयसे एतस्यैव सोम्य एषोणिम्न एवं महान्न्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति स य एषोणिमा ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मेत्यादि । अतात्त्विकत्वमिति । प्रादेशमात्ररूपस्य । ननु बुद्धिसौकर्यप्रकारस्योक्तत्वात् तार्किकैरभिनवातिरिक्तैः वास्तव नित्यानन्दात्मकशरीरानङ्गीकारे- णान्यमतप्रवेशाभावात् सूत्रे च ब्रह्मवादानन्योपनायकपदाभावाच्च कथं ब्रह्मवादान्यथाकरणे बादरे- राशय इति चेत्तत्राहुः अथ वेति । अथ वा ननु तात्त्विकरूपवाद्यपि प्रायपाठपठितो बादरिः कथमतात्त्विकरूपवादीत्यत आहुरथ वेति । मायेति निराकारं ब्रह्मानुस्मृतिजवनिकाञ्छन्नम् । तथाहि ज्ञानकाश्येत्येवं वाक्यादनेकरूपाणां चिन्तनवशादाविर्भूतानामाधिदैविकदेवताधिष्ठितत्वेन तात्त्विकानां संबन्धिनी सदृशी चान्तरालिकसृष्टिपदवाच्यानुस्मृतिः प्रादेशमात्रमनु लक्षीकृत्य ततः पश्चाद्भाउत एव प्रादेशमात्ररूपा तद्विषयिणी वा स्मृतिर्मायेति निराकारं रूपाणि च तयाच्छादितानि । तत्तद्रूपाणाम- भिव्यक्तिस्तु मायात्कार्यापगमेनेति पूर्वमततुल्या । सिद्धमाहुः एवमिति पूर्वोक्तेन द्वितीयवर्णकेन बादरिमतपदसामानाधिकरण्यं यदा तदेत्यर्थः । भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वं सामानाधिकरण्यम् ॥ ३० ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥ अथ तु ब्रह्म जैमिनिमते । न चाने- केश्वरापत्तिरिति शङ्क्यम् । आत्माधिकः कालादिभिर्नभोग इति ज्योतिषजैमिनिसूत्रात् । आत्मा भवति क इत्याह अधिक इति कलादिभिः सकलगुणैरधिक आत्मो नभोगो ग्रहो यः सः इत्यर्थे नीलकण्ठसुधोधिभ्यामस्ति । पुरुषाकारेति न च प्रदेशविशेषः पुरुषाकार प्रदेश इति तावन्मात्रस्य पुरुषाकारत्वमिति शङ्क्यम् । सर्वतःपाणिपादान्तत्वेन सर्वेषु प्रदेशेषु पाण्यः पादा अन्ताश्च यस्येति 598