अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 690, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ५९९ तत्र का संपत्तिः कथमिति स्वयमेव श्रुत्या प्रदर्शयति । वाजसनेयिब्राह्मणे द्युप्रभृतीन् पृथिवीपर्यन्तान् वैश्वानरस्यावयवान्, अध्यात्म्ये च मूर्धप्रभृतिषु चिबुकपर्यन्तेषु संपादयन् प्रादेशमात्रमिह वै देवाः सुविदिता अभिसंपन्नास्तथा तु व एतान् वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामीति । स होवाच मूर्धानमुपदिशन्नुवाच एष वा अतिष्ठा वैश्वानर इत्यादिना संपत्तिनिमित्तमेव प्रादेश- मात्रत्वं वैश्वानरस्याह । न तु प्रादेशमात्र एव वैश्वानर इति । तदेकदेशिपरिहारं जैमिनिर्मन्यते ॥ ३१ ॥ भाष्यप्रकाशः। द्युमूर्धश्रुतिविरोधादिति तदाशयः । अभिविमानत्वं जगन्निर्मातृत्वात्, द्युमूर्धत्वादिकं तूपासनार्थ- मित्यविरुद्धम् । तन्निराकरणाय सर्वत्र सर्वेषु वैश्वानरस्य प्रदेशेषु प्रादेशमात्रत्वं तथाह । तत्र संपत्तिकृतत्वे वाच्ये सा केत्याकाङ्क्षायां संपत्तिं तत्कृतं प्रादेशमात्रत्वं च स्वयं जैमिनिः श्रुत्या प्रदर्शयतीत्यर्थः । संपादयन्निति कैकेय इति शेषः । श्रुतिं पठन्ति प्रादेशमात्रमित्यादि । इत्यादिनेति चक्षुषी उपदिशन्नुवाच, एष वै सुतेजा वैश्वानर इति । नासिके उपदिशन्नुवाच, एष वै पृथग्वर्त्मात्मा वैश्वानर इति । मुख्यमाकाशमुपदिशन्नुवाच, एष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाच, एष वै रयिर्वैश्वानर इति । चिबुकमुपदिशन्नुवाच, एष वै प्रतिष्ठा वैश्वानर इत्येतावता संदर्भेण । अर्थस्तु, देवा द्युप्रभृतयः, सुविदिताः वैश्वानरमूर्धादिरूपेण अवच्छिन्नाः सजाताः । प्रादेशमात्रमिव ह वै अभिसंपन्नाः प्रादेशपरिमाणकमिव वैश्वानरं, ह वै प्रसिद्धा प्राप्तवन्तः । कथं प्राप्तवन्त इत्याकाङ्क्षायां प्रकारं प्रतिजानीते, तथा तु व इत्यारभ्य संपादयिष्यामीत्यन्तम् । प्रतिज्ञातं विवृणोति स होवाच मूर्धानमित्यादिना । एष द्युलोकात्मा देवः, अतिष्ठा वैश्वानरः। अतिष्ठागुणको वैश्वानरावयवः। वैश्वानरशब्दात् तस्येदमिति शैषिकोज्ण्। एवमग्रेऽपि । तथाच मूर्धानमित्यादिनाऽध्यात्मं जीवावयवेषु तान् देवान् संपादयन् संपत्ति- रश्मिः। प्रदेशविशेषस्य पुत्राकारप्रदेशत्वाभावात् । माङ् माने इत्यत्र मानं निर्माणमित्याशयेनाहुः अभिवीति यद्वाकाशस्य सर्वगतत्वेन तन्निर्मातुरप्यमितो विगतमानत्वं तथा शंकरभाष्यं अभिविमीते वा सर्वं जगत् कारणत्वादित्यभिविमान इति । तन्निरेति एतादृशैकदेशिमतनिराकरणाय प्रादेशत्वमित्यस्य विवरणं प्रादेशमात्रत्वमिति । तथाहेति संपत्तिकृतत्वेनाह । तत्रेति भाष्यं विवृण्वन्ति स्म तत्रेति । आदिशब्देन प्रकारप्रश्नः कथमिति भाष्योक्तः । भाष्ये । अध्यात्म्य इति आत्मानमधिकृत्य वर्तते- ऽप्यवससमूहखासिन् छान्दसः प्रयोगः उपासकावयवेषु । केकय इति राजा । प्रकृते । मत्त इति केकयराज्ञः। व इति प्राचीनशालादीन् । एतान् देवान् वक्ष्यामीति वचेर्द्विकर्मकत्वम् । यूयं प्राची- नशालादयः एतान् देवान् वक्ष्यथ मां प्रति तान् प्राचीनशालादीन् अहं राजा वक्ष्याम्येतान् देवान् इति । स होवाचेति राजा प्राचीनशालादीनुवाच मूर्धानमिति राजा स्वमूर्धानम् । अतिष्ठेति नूरादिरोकानतील तदुपारि तिष्ठतीत्यतिष्ठा । भावप्रधानस्तद्धान्तकः । वैश्वानरपदस्यावयववाचकत्वमाहुः वैश्वानरेति वैश्वानरस्यायमवयवो वैश्वानरः । एवमग्र इति एवमेव स्वस्य चक्षुषी दर्शयन् सुतेजाः त्त्वसौ वैश्वानरस्य चक्षुरिति प्रसिद्धचक्षुषोर्वैश्वानरसंबंन्धिदैवं यदादित्याख्यं चक्षुस्तद्रुष्टिः कर्तव्येति प्रोवाच । एवमग्रेपि स्वावयवेषु वैश्वानरावयवदृष्टिरिति द्रष्टव्या । पृथग्वर्त्मात्मा वायुः वैश्वानरस्य प्राणः । ७६ ब्र० सू० २ ० 599