अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 691, कुल 2600 में से
संदर्भ में पढ़ें" ६०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० ३२ आमनन्ति चैनमस्मिन् ॥ ३२ ॥ मुख्यं स्वसिद्धान्तमाह । व्यापक एव प्रादेश इति । न हि विरुद्धमुभयं भगवत्यनवगाह्यमाहात्म्ये । तस्मात् प्रमाणमेवानुसर्तव्यं, न युक्तिः । शब्द- बलविचार एव मुख्यः । न तु प्रातीतिकविरोधादन्यथात्वकल्पनम् । वैश्वानरस्य पुरुषत्वं, पुरुषविधत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं च वाजसनेयिनः समामनन्ति । न हि तस्य तद्विधत्वं, तस्मिन् प्रतिष्ठितत्वं च संभवति युक्त्या । अतोऽन्ये ऋषयो भ्रान्ता एव येऽन्यथा कल्पयन्तीत्यभिप्रेत्य स्वमतमाह । भाष्यप्रकाशः । निमित्तं तदाह । अतः स्थानानुरोधेन तदनुगुणा स्थितिः संपत्तिस्तदनुरोधनिमित्तं प्रादेशमात्रत्वं, न तु स्वाभाविकमित्यर्थः । एवं श्रुत्युक्तानामाध्यात्मिकं रूपमादायानियतपरिमाणपक्षव्याख्यानस्य