भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 697, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 697

३०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० ८ सू० ३२ भाष्यप्रकाशः । धर्मवान् हिरण्यश्मश्रुत्वादिवर्मवांचाऽलौकिकभोगयोगेऽपि दोषरहितः प्रकटसच्चिदानन्दस्वरू- पोऽधिदेवादिप्रयनियामकोऽक्षरादुत्कृष्टः खत एव साकारो विरुद्धधर्माश्रयो भगवान्नेव, न जीव इति । तेन सर्वान्तर्याम्येको भगवानिति सिद्धम् । आधेयरूपो विचारित इति च ॥ ३२ ॥ ८ ॥ इत्यष्टमं वैश्वानराधिकरणम् ॥ ८ ॥ इति श्रीवल्लभाचार्यचरणनखचन्द्रनिवारितहृद्यान्धकारेण पीताम्बरतनुजपुरुषोत्तमेन कृते भाष्यप्रकाशे प्रथमाध्यायस्य द्वितीयः पादः ॥ १ ॥ २ ॥ समाप्तो द्वितीयः पादः ॥ २ ॥ रश्मिः । प्रोक्ता । द्वितीयाधिकरणार्थरूपतामाहुः हिरण्येति । तृतीयाधिकरणार्थतामाहुः असेति । चतुर्थाधि- करणार्थतामाहुः अलौकिकेति । पञ्चमाधिकरणार्थतामाहुः प्रकटेति षष्ठाधिकरणार्थतामाहुः अधीति । सप्तमाधिकरणार्थरूपतामाहुः अक्षरादिति । अष्टमाधिकरणार्थतामाहुः खत इति । आधेय इति आधेयानि मनोमयत्वादीनि तै रूप्यते व्यवह्रियते इत्याधेयरूपः तदुक्तं तेन सर्वान्तर्यामी एको भगवानिति सिद्धमिति अग्रिमपादे स्फोटिष्यतितमाम् ॥ ३२ ॥ ८ ॥ इति अष्टमाधिकरणम् ॥ ८ ॥ इति श्रीविठ्ठलनन्दनश्रीगिरिधर्यात्मज श्रीदामोदरभ्रात्रीयेण पूर्णचेत्रा श्रीगोविन्दरायपौत्रेण श्रीविट्ठलरायभ्रात्रीयश्रीगोकुलोत्सवात्मज- गोपेश्वरेण कृते भाष्यप्रकाशरश्मौ प्रथमाध्यायस्य द्वितीयः पादः संपूर्णतामगमत् ॥ १ ॥ २ ॥ समाप्तो द्वितीयः पादः ॥ २ ॥ 606