भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 696, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 696

पदैस्तमेव परामृश्य मूर्धप्रभृतीनां समभिव्याहरणात् । तत्कथं संनिहितपरित्यागेन व्यवहित- स्योपासकस्य परामर्शः कर्तुं शक्यते । नचाग्रे सुतेजःप्रभृतिभ्योऽतिरिक्तानामुरःप्रभृतीनां वेद्यादित्वकथनात् तथेति वाच्यम् । भगवतो विश्वकायत्वाय तन्मूर्धादीनां सुतेजस्त्वादिरूपोप- देशवत्तस्य यज्ञत्वाय तदुरआदीनां वेदित्वादिरूपोपदेशस्य शक्यवचनतया तस्योपासकावयवगम- कताया निषेधुमशक्यत्वात् । नचैवं सति तद् यद्भक्तं प्रथममागच्छेदित्यादौ यः प्राणाग्निहोत्रा- धारत्वेनोपासकस्यादिपरिग्रहः स कथं संगच्छेतेति शङ्क्यम् । संपत्तिसूत्रविषयवाक्ये वैश्वानरा- वयवानामुपासकमूर्धादिषु संपत्तिकथनेन तेषां मानवदनुक्तानां तदुरःप्रभृतीनामप्युपासकोरः- प्रभृतिषु संपत्त्या मानसाभिप्रेततया सुखेनैव तदास्यादिपरिग्रह