अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 701, कुल 2600 में से
संदर्भ में पढ़ें६०८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १ सू० १ आधाररूपोऽत्र प्रतिपाद्यते । तेन सर्वं ब्रह्मेति फलिष्यति । भाष्यप्रकाशः। त्मावेशः सपरिकरं लोकत्रयं च बोधितम् । ततोऽदृश्यत्वाद्यधिकरणद्वये अव्यक्तत्वमीश्वरत्वं चाक्षरादुत्तमत्वेन विरुद्धधर्माधारत्वेन च विचारितम् । तदेतदुक्तम् । आधेयरूपो भगवान् प्रतिपादितः इति । तथा अदृश्यत्वाद्यधिकरणे 'यस्मात् क्षरमतीतोऽहम्' इत्यपि विचारितमेव । अतः परं तल्लिङ्गाद्यधिकरणेषु य आधाररूपो निरूपितः सोऽत्र विचार्यते । तेन 'पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्' ॥ इति वाक्योक्तराधोक्तं विवृतं भविष्यति । तदेतदुक्तम् । आधाररूपोऽत्र प्रतिपाद्यत इति । द्वितीयपादोक्तमनन्यभक्तित्वमर्थ्यं तु गुणोपसंहारपादे फलिष्यतीत्यतो नोक्तम् । एवं पाद- द्वयोक्तस्य फलं समन्वयस्तत्स्वरूपं वदन्ति तेनेत्यादि । ननु पूर्वपाद आधेयनिरूपणेऽप्याकाशा- त्मत्वाकाशाज्ज्यायस्त्वब्रह्मक्षत्रौदनकत्वलोकशरीरकत्वादिनिर्व्यापकत्वावधारण आधाररूपताऽप्यव- रश्मिः। 'यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति' इति 'गामाविश्य च भूतानि धारयाम्यहमोजसा' इति त्त्वावेशः । सपरीति अन्तर्यामिणः सपरीत्यादि । एवं सर्वत्र बोध्येति भाष्यप्रकाशेन यस्य सर्वे लोकाः शरीरं यः सर्वांल्लोकानन्तरो यमयतीति लोकत्रयम् । पृथिव्याकाशवाय्वादित्यचन्द्रतारकदिग्वियुत्- स्तनयित्नवः परिकरः अग्रे यः सर्वेषु लोकेषु तिष्ठन्निति लोकत्रयम् । पुनः परिकरः वेदयज्ञ- सर्वभूतप्राणवाक्चक्षुःश्रोत्रमनस्त्वक्तेजस्तमोरेतात्मरूपः तेन परिकरेण सह सपरिकरम् । श्रुतयो विस्तरभिया न लिखिताः । अव्यक्तत्वम् अक्षरत्वम् । ईश्वरत्वं वैश्वानरत्वम् । अक्षरादिति अक्षरे पुरुषोत्तमं निवेश्य । उत्तमत्वेन अक्षरापेक्षया उत्तमत्वेन । वैश्वानर इत्यधिकरणे विरुद्धधर्मा- धारत्वेन । इत्यपीति अक्षरादपि चोत्तम इत्यनेन द्वितीयपादेनाक्षरोत्तमत्वमपि । तल्लिङ्गेति तल्लिङ्गादित्यधिकरणे 'अत एव प्राणः' इत्यधिकरणे ज्योतिश्चरणाभिधानादित्यधिकरणागमाधिकरणेषु चतुर्षु यः सर्वपरायणत्वेनाकाशः अभिसंवेशस्थानत्वेन प्राणः ब्रह्मत्वेन ज्योतिः सर्वात्मकब्रह्मत्वेन प्राण आधाररूप आकाशादिशब्दाभिधेयः शब्दसंदेहवारणेन निरूपितः । तेनेति आधाररूपप्रति- पादनेन । इतिवाक्येति आधाररूपम् । प्रतिपाद्यत इतीति । तेन प्रथमपादेनास्य पादस्य सामान्यविशेषभावः संगतिर्द्वितीयेन तु पादेन प्रसङ्गोऽवसरो वा संगतिरिवि फलितम् । केचित्तु त्रैलोक्यात्मा वैश्वानरः पूर्वत्र निरूपितस्तेन त्रैलोक्यायतनं तत्स्यद्यमिति प्राप्ते तदायतनमपि तदेवेति वक्तुमस्यारम्भ इत्याहुस्तद्युद्घोघातसंगतिरधिकरणसंगतिः । अर्मकौकस्त्वात्तद्व्यपदेशाच्च नेतीति सूत्रे भाष्ये 'भक्तौ तु बहिरपि' इति विशेष इत्युक्तम् । अनन्यभक्तित्वम्यत्वं प्रसङ्गात्कुतो न निरूपितमित्या- शङ्कयाहुः द्वितीयेति । गुणेति साधनाध्यायतृतीयपादे । तेनेति सर्वसाधारायेयनिरूपकत्वेन । आकाशात्मेति अर्भकौकस्त्वात्तव्यपदेशाच्च नेति सूत्रे महतो महीयानिति श्रुतौ आकाशात्मत्वादिः महत् आकाशात् सशरीरान्महान् यद्वा आकाश इत्यधिकरणे आकाशो वैवैभ्यो ज्यायान् आकाकः परायणमिति श्रुत्युक्तमाकाशात्मत्वमाकाशस्य ज्यायस्त्वं चोक्तं तद्वत्रापि । तल्लिङ्गाधिकरणे आधाररूपो निरूपितः सोऽत्र विचार्यते इतिभाष्यप्रकाशात् । ब्रह्मक्षत्रेति अत्ता चराचराधिकरणे मत्वञ्जेत्यादिः । १. अनन्यभक्तिमिति पाठः । 608