भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 702, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 702

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६०९

बाधकानां बलिष्ठत्वात् साधकानामभावतः । आधारधर्मा बाध्यैरन्निति पादोऽभिधीयते ॥ इदं श्रूयते । 'यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः' इति । यस्मिन्नित्यादिवाक्ये च वाक्यार्थः सर्वबाधितः । अर्थात् प्रकरणाल्लिङ्गादिति पूर्वं विचार्यते ॥ भाष्यप्रकाशः। धारिता भवतीति व्यर्थः पादारम्भ इत्यत आहुः बाधकानामित्यादि । तेषु प्रेत्याभिसंभवाञ्जपा- रायन्तररात्मत्वादीनां साधितत्वेन बाधकानां बलिष्ठत्वात् साधकानामसाधितत्वेन नैर्बल्या- चदमावत आधारधर्मा ज्यायस्त्वादयो बाध्यैरन्नवतस्तथैततो न व्यर्थ इत्यर्थः । क्रमनियामिका त्ववसरसंगतिः । सा च जडार्थवारणरूपा द्वितीयपादारम्भ एवोक्तेति न पुनरुच्यते । एवं संगतिं प्रयोजनं चोक्त्वाऽधिकरणं विवरीतुं विषयवाक्यमुपक्षिपति इदं श्रूयत इत्यादि । श्रूयत इति आथर्वणोपनिषद्द्वितीयमुण्डके श्रूयते । एतस्यैव वाक्यस्य प्रथमतः कुतो विचार इत्याकाङ्क्षायामाहुः यस्मिन्नित्यादि । वाक्येत्यादि । सर्वबाधित इति सर्वैः प्रकारैर्बाधितः । इतिर्हेतौ । अत्र बुद्धिस्यानात्मिकाधिकरणसंगतिरपि बोध्यते । तल्लक्षणं तु, 'बुद्धिस्थं चिन्त्यते यत्र बुद्धिस्यानात्मिका तु सा' इति । तथा च तल्लिङ्गाद्यधिकरणे आकाशपदस्य ब्रह्मवाचकत्व- रश्मिः। वैश्वानराधिकरणे लोकशरीरत्वमादिपदेन विरुद्धसर्वधर्मोधारत्वम् । पादेति आधारनिरूपक- पादारम्भः । प्रेत्येत्यादि 'आकाशस्तल्लिङ्गात्' इत्यधिकरणे विषयवाक्यमुपन्यस्तम् । तदग्रे च्छान्दोग्ये प्रथमप्रपाठके पठ्यते परोवरीयो हैभ्यस्तावदर्सिलोके जीवनं भविष्यति तथामुष्मिन् लोक इति । प्रेत्याभिसंभवः श्रुत्यर्थस्तु एभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्यः परोवरीय उत्तरोत्तरं विशिष्टतरं जीवनं ह भविष्यति तथामुष्मिन् दृष्टे लोके । प्रेत्य मृत्वा । आदिपदेनाग्निमश्रुतौ प्राणविद्यायाः कर्माङ्गत्वं श्रुतिस्तु मठमाहितेष्विति । श्रुत्यर्थं तत्रैव द्रष्टव्यो । मन्मद निवाससौख्ये भ्वादिः परस्मैपदी सेट् । बमू गतिपूजनयोः अथ इत्येके मन्मद इति मट् मदः भावे किए अन्यत इत्यम् मदगतिभ्यां इतेषु कुङ् । अञ्जपारास्त्वितु काठके तृतीयवल्ल्याम् 'सोऽध्वनः पारमाप्नोति' इति श्रुतौ । आदिपदेन ब्रह्मक्षत्रोदनकत्वं द्वितीयवल्लीसमाप्तौ । अञ्जपारास्त्वितु तृतीयवल्ल्यां जीवप्रकरणे ऋतं पिबन्ता- विति श्रुत्युक्तब्रह्मसंबन्धिनी । अथवा 'इन्द्रियेभ्यः परा ह्यर्थाः' इत्युपक्रम्य 'अव्यक्तात् पुरुषः परः' इति । व्यापकत्वबाधकमन्तरेति 'यस्त्वेवमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरम्' इति छान्दोग्ये सप्तमप्रपाठके वैश्वानरोऽस्म्यहमिति टीकायामन्तरात्मत्वं भाष्ये तु जाठरोपाधिकमन्तरात्म- त्वम् । आदिपदेन सर्वात्मत्वबाधनं संसारिलिङ्गम् । साधितेति इयं श्रुत्या साधितमन्तरात्मत्वं शांकरैः साधितम् । साधकानां नैर्बल्ये पादाभिधानं न स्यात् साधककार्यत्वादित्याकाङ्क्षायामाहुः असाधितेति । नयेति पादोऽभिधीयते इत्यभिधेयत्वेन प्रकारेण । अत्रैति प्रथमपाडे शब्दसंदेहे वारिते आधारनिरूपने प्रतिबन्धकीभूतधेयनिरूपणं मनोमयत्त्वादिधर्मैराधेयाधारनिरूपणस्य विवक्षितत्वात् । अत आधेयनिरूपणेन प्रतिबन्धकीभूतजिज्ञासानिवृत्त्याऽवश्यवक्तव्यत्वमाधारनिरूपण इत्यवसरसंगतिः पादत्रयस्य क्रमनियामिका । द्वितीयेति भाष्य उक्ता तथाऽर्थो द्विविधो जीवजडात्मकः तत्र प्रथमं 609

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 702, कुल 2600 में से · BharatKosha