भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 703, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 703

६१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १ सू० १ अत्र संशयः। द्युभ्वाद्यायतनं ब्रह्म, आहोस्वित् पदार्थान्तरमिति । अर्थान्तरमेव च भवितुमर्हति। द्युभ्वादीनां सूत्रे ‘मणिगणा इव’प्रोतानां धारका- ष्टकत्वान्न तद्वाहकः परमात्मा। अन्यवाग्विमोकश्चासङ्गतः। एकविज्ञानेन सर्व- विज्ञानस्य पृष्टत्वात् कथमन्यविमोकः। सेतुश्च गतिसाधनः। तस्मात्फलत्वमपि । आत्मलाभाच्च परं विद्यत इति विरोधश्च । अतो न ब्रह्मविद्यापरमेतद्वाक्यम्। किंतु स्मृतिमूलं भविष्यतीत्येवं प्राप्ते । उच्यते । भाष्यप्रकाशः। मङ्गीकृत्य ब्रह्मलक्षणस्य भूताकाशेऽतिव्याप्तिवारणेऽपि सांख्यमतसिद्धे प्रधानेऽतिव्याप्तिमाशङ्क्य वारणात् । बाधादिकं विवरीतुं संशयपूर्वपक्षावाहुः अत्र संशय इत्यादि । अर्थान्तरमेवे- त्यादि च। ब्रह्मवाक्यत्वबाधकान् हेतून् विवृण्वन्तः पूर्वमर्थाद् बाधं विवृण्वन्ति द्युभ्वित्यादि। एवं पूर्वोक्तार्थाद् ब्रह्मवाक्यत्वबाधो व्याख्यातः । प्रकरणकृतं तं व्याकुर्वन्ति अन्येत्यादि । लिङ्गकृतं तं व्याकुर्वन्ति सेतुरित्यादि । स्मृतिमूलमिति सांख्यस्मृतेर्मूलभूतम् । तथा चात्र प्रधानमेव प्रतिपाद्यम् । न चात्मपदविरोधः । योगेन तस्यापि व्याप्तिमात्रबोधकतया संगतेः । अथ रूढ्यपेक्षया योगस्य नैर्बल्यं विभाव्यते तदा पुरुषपरमस्तु । अन्या इत्यत्रामो डादेशः। अन्यमित्यर्थः । वाच इति । षष्ठी पञ्चमी वा । वादान्तररूपायाः। एष इति सांख्यवादः । एवं सर्ववाक्यसंगतेरित्यर्थः । सिद्धान्तं व्याकुर्वन्ति उच्यत इत्यादि । कुत इत्याकाङ्क्षायां रश्मिः। -बीवंपुरःसरेण संदेहा निवार्यन्त इति भाष्येण तथा चोक्तप्रायेत्यर्थः। यस्मिन्नित्यादीति प्रतीके शरीरगौरवं कारिकाकाठिन्येनाम्नातम् । नैयायिकमते दूषणं नान्यत्र । बाधादिकमिति आदिपदेनाथादित्यादि । तमिति ब्रह्मवाक्यत्वबाधम् । भाष्ये । एकेति ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ इति श्रुतैकविज्ञानेन सर्वविज्ञानस्य शौनकेनाङ्गिरसः पृष्टत्वाच्छान्दबोधे पदजन्यपदार्थोपस्थितेः कारणत्पादन्यवाग्विमोके तदर्थस्य प्रधानस्य पदजन्योपस्थितिविषयत्वमन्यवाचां विमोकादतः कथ- मन्यवाग्विमोक इत्यर्थः । सेतुरित्यादीति । भाष्ये । साधन इत्यत्र ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इति सूत्रेण ल्युः । आङ् अभिविधौ अभिव्याप्यार्थमासमन्तात् । भाष्ये स्मृतिपदं ·शास्त्रात् सांख्यस्मृतिपरमित्याहुः सांख्येति । का सा स्मृतिरित्यत आहुः तथा चेति । समवायिन्योतं कार्यं भवतीति ‘प्रधानाज्जगज्जायते’ इति स्मृतिरोक्तम् । योगेनेति आप्नोतीत्यात्मेति रामानुजाचार्यभाष्योक्तेः । अतति व्याप्नोतीत्यात्मेति योगेन वा । व्याप्तिमात्रमित्यत्र मात्रपदे पुंलिङ्गव्युदासः । पुरुषेति प्रधानसंसृष्टपुरुषपरम् । विषयवाक्यविषमपदार्थानाह अन्या इति । सुपां सुलुगिति सूत्रेण डादेशः। अन्यमिति आत्मविशेषणम्। द्युभ्वाद्यायतनं प्रधानं सल्लक्षणादिति सूत्रार्थः। द्यौश्च भूश्च द्युभुवौ द्युभुवावादी यस्य तदिदं द्युम्वादि यदेतस्मिन् वाक्ये द्यौः पृथिव्यन्तरिक्षं मनःप्राणा इत्येवमात्मकं जगदोतत्वेन निर्दिष्टं तस्यायतनमिति शंकराचार्यभाष्येऽवयविसमास उक्तस्तमपाकर्तुमवयवसमासं बोधयामासुः द्यौः भूश्चेति द्युभ्रुवावादी यस्येत्यवयविसमासे यस्येत्यस्या- न्तरिक्षादिसमाहारस्येत्यर्थो भवति तस्य विषयश्रुतावप्रत्ययाद्वयवसमासो विषयश्रुतिप्रतीत उररीकृत- श्चाहुः । भाष्ये । द्यौरिति । प्रकृते । एवमिति आत्मीयसर्वप्रातिपन्द्यवाचकं शब्दप्रयुक्तम् । 610