अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 705, कुल 2600 में से
संदर्भ में पढ़ें६१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० १ सू० २ मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥ ननु चोक्तं सर्वविज्ञानस्योपक्रान्तत्वादन्यवाग्विमोको विरुद्ध इति । नैष दोषः । मुक्तोपसृप्यव्यपदेशात् । मुक्तानां जीवन्मुक्तानां शरीराद्यध्यासरहिता- नामवान्तरप्रकरणशरधनुर्न्यायेन ब्रह्मत्वेन ज्ञातं पृथक्त्वेन वा जीवं लक्ष्ये योजयितुं तदुपसृप्यता व्यपदिश्यते । तेन शरीराद्यध्यासविशिष्टं न ब्रह्मणि भाष्यप्रकाशः । मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥ एवं दोषद्वये परिहृतेऽपि तृतीयस्यापरिहृतत्वा- दाक्षिपति ननु चेत्यादि । मुक्तोपसृप्यव्यपदेशादिति मुक्तोपसृप्य इति भावप्रधानः । मुक्ते निष्ठा या उपसृप्यता भगवन्निकटगमनयोग्यता तया कृत्वा भगवतस्तथा उपदेशो मुक्तोपसृप्यव्यपदेशस्तस्मात् । एतद्व्यपदेशेन कथं दोष