अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 729, कुल 2600 में से
संदर्भ में पढ़ें३३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ३ सू० १० सिद्धं हेतुमाह । अत्रैक एव प्रश्न उत्तरं चैकम् । आकाङ्क्षायावान्तरत्वमेव । तेनाम्बरान्तानां पृथिव्यादीनां विधारकः परमात्मैव । द्युभ्वाद्यायतनसिद्धो धर्मोऽत्र हेतुः न तदश्नोति कश्चनेति मुख्यतया परिगृहीतो भवति । अन्यथा मूर्ध्नो विपातनं च भवेत् । न ह्यन्यः सर्वाधारो भवितुमर्हति । परोक्षेण ब्रह्मकथनाऽर्थ- मक्षरपदमन्यनिराकरणार्थं तद्धर्मोपदेशाच्च । तस्मादक्षरं परमात्मैव ॥ १० ॥ भाष्यप्रकाशः। अत्रैक इत्यादि। यद्यप्यत्र 'द्वाभ्यां प्रश्नाभ्यामुपोद्घातम्' इति द्वौ प्रश्नौ प्रतीयेते, तथापि पूर्वब्राह्मणे यथा तावत्सु प्रश्नेषु कृतेष्वपि न प्रश्नपरिसमाप्तिरेवमत्राकाशप्रश्नेऽपि, ततः कस्मिन् वा आकाश ओतश्च प्रोतश्चेति प्रश्ने आकाश एवेत्यु