अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 730, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७ भाष्यप्रकाशः । अयमर्थः । पूर्वब्राह्मणे अव्याकृतन्तरमाकाशस्योक्तत्वेऽप्यत्र पुनर्यदाकाशकथनं तन्न भूताकाश- परं किंतु भूतसूक्ष्मकालप्रकृत्यन्यतमं यद्वस्तु तत्परम् । तच्च मतान्तरे पदार्थान्तरम् । सिद्धान्ते तु प्रथमं कार्यं तत् । ततोऽधिको धारको न जीवविशेषोऽपि भवति । उक्ताकाशौत- प्रोतत्वस्य जीवे क्वाप्यसिद्धत्वात् । एवं जडजीवयोर्निवृत्तौ तद् ब्रह्मकार्यत्वेनैव निर्णीयते । रश्मिः । प्राप्तं भारवाहकत्वं वारयामासुः अयमर्थ इति । भूतेति भूतसूक्ष्माणि शब्दरूपरसस्पर्शगन्धाः भूतानां सूक्ष्माणि रूपाणि भूतसूक्ष्माणि । तत्परमिति अन्यथा पौनरुक्त्यापत्तेः । काशृ शब्दे भ्वादिः परस्मैपदी सेट् । काशृ दीप्तौ दिवादिः आत्मनेपदी सेट् । योगेन शब्दपरम् । परंपरया काश्यत इति योग