भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 746, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 746

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६५३ दहर उत्तरेभ्यः ॥ १४ ॥ ( १३।५ ) 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराका- शस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्' इत्यादि श्रूयते । तत्र भाष्यप्रकाशः । दहर उत्तरेभ्यः ॥ १४ ॥ विषयवाक्यमाहुः अथ यदिदमित्यादि । श्रूयत इति छान्दोग्ये ऽष्टमप्रपाठकारम्भे श्रूयते । संशयमाहुः तत्रेत्यादि । अत्र हि ब्रह्मपुरे शरीरे दह- रपुण्डरीकं हृदयकमलं वेश्म । तस्यान्तर्दहराख्य आकाशः । तदन्तर्यद्वर्तते तदन्वेष्टव्यत्वेनो- पदिश्यते । तत आकाशादन्तः किं विद्यत इति प्रश्ने, यावान् वेत्यादिना हार्दाकाशस्य व्यापक- त्वकथनपूर्वकं, तस्मिन् द्यावापृथिव्यादिसर्वसमाधानं प्रत्युत्तरयति । तेषां च स्वेन रूप

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 746, कुल 2600 में से · BharatKosha