भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 747, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 747

संशयः । किं जीवोऽन्वेष्टव्यो ब्रह्म वेति । जीवब्रह्मवादो निर्णीयते । मुख्योऽत्र हि निर्णतव्यः । तद् यदस्मिन् वाक्ये परमार्थतो जीव एव ब्रह्म वेच्छास्त्रं च तत्रैव भाष्यप्रकाशः। कामानां समाधानं चोक्त्वा, एष आत्मेत्यादिना अपहतपाप्मत्वादिगुणकमात्मानं प्रत्युच्चरयति । तेन शरीररूपपादनित्याद् ब्रह्मपुरादन्यः सत्यब्रह्मपुररूपः पूर्वोक्तद्यावापृथिव्यादिरूपसर्वकामाधार एष आत्मेत्यादिनोक्त आत्मा सत्यब्रह्मपुरत्वेन सिद्ध्यति । यदि च कामवदात्मनोऽप्याधेयत्वमुच्यते, तदा पुराकाङ्क्षा न पूर्येत । अत आत्मन एवातिशिष्टब्रह्मपुरत्वमिति निश्चयः । एवं सति, ब्रह्मपुरमि- त्यत्र यदि षष्ठीसमासस्तदास्यात्मनो जीवत्वम् । यस्यात्मा शरीरमिति श्रुत्यन्तरात् । यदि समा- नाधिकरणसमासस्तदा आत्मा ब्रह्मैव । अतोऽनित्यपुरनाशेऽतिशिष्टो यो नित्यो दहराकाशरूप आत्मा, स जीवो वा, ब्रह्म वेत्येव संशयाकारः पर्यवस्यति । न तु भूताकाशकोटेस्तत्र निवेशः । उक्तरूपत्वस्य तत्राभावादिति । अत्र दहरान्तर्वर्तिन उत्तरप्रकरणे चात्मनोऽन्वेष्टव्यत्वं श्राव्यते । ततश्चान्वेष्टव्यः क इत्यपि संशयः । तदेतदुक्तम्, किं जीवोऽन्वेष्टव्यो ब्रह्म वेति । ननु तल्लिङ्गाधिकरणे आकाशशब्दोदितस्य सर्वाधारत्वब्रह्मत्वयोर्विचारितत्वात् किमनेनाधिकरणेनेति शङ्कायां तत्प्रणयनप्रयोजनमाहुः जीवेत्यादि । उपाधिभेदात् स्वरूपविस्मरणाद्वा इदानीं भेदेऽपि वस्तुतश्चैतन्यमात्रत्वाज्जीवाभिन्नमेव ब्रह्मेति वादो जीवब्रह्मवादः । स संभवति, न वेति निर्णी- रश्मिः । नास्य हन्यते एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिताः एष आत्मापहतपाप्मा विजरो विमृत्युः' इत्यनया । प्रतीति श्रुतिः । आत्मेत्यक्षरः । ननु नास्य जरयेति श्रुतेरस्य देहस्य जरयैतदन्त- राकाशं ब्रह्म देहवन्न विकुरुते । एवमग्रेपि ब्रह्मपुरमित्यत्र समानाधिकरणसमासात् ब्रह्मैव पुरमित्यर्थात् न ब्रह्मणः पुरमक्षरं नित्यमित्याशङ्कायामाहुः यदीति । दहरस्याप्याधेयत्वं समानाधिकरणसमासादुच्यते तदा यदैतज्जरा व्याप्नोति प्रध्वंसते वा किं ततोतिशिष्यते इति प्रश्ने नास्य जरयेत्याद्युक्तम् । तत्र पुरनिरूपणाभावो यदि तर्हि पुराकाङ्क्षापूरणाभावात् व्यर्थ एवारम्भः अतो ऽनित्यदेहादतिरिक्तस्या- क्षरात्मकस्य ब्रह्मलोकरूपोक्तिरिति मन्तव्यमित्यर्थः । अतिशिष्टेति । एतच्च सर्वनिर्णये 'प्रभुत्वेन हरेः स्फूर्ती लोकत्वेन तदुद्भवः' इति श्रीआचार्यैरुक्तम् । भक्तिमार्तण्डे प्रमेयप्रकरणे मयैतन्निपुणतरमुपपादितम् । आत्मन इत्यक्षरस्य । आत्मेति आत्माक्षरो ब्रह्म भवत्येव । उक्तेति दहराकाशरूपात्मत्वस्य तस्योत्पत्तेर्द्वितीयाध्याये वक्ष्यमाणत्वादिति भावः । अत्र इति छान्दोग्ये दहरान्तर्वर्तिनो जीवस्य प्रकरणं पूर्वमुत्तरे ब्रह्मप्रकरणे । अथ यदिदमित्येवं जीवप्रकरणे श्राव्यते तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुर इत्येवं ब्रह्मप्रकरणे श्राव्यते । अन्वेष्टव्यत्वं तु 'सर्वे कामाः समाहिताः' इति श्रुत्या सर्वकामसमाहितत्व- रूपमन्वेषणहेतुसत्त्वात् । तदर्थाध्याहारेण । तत इति किमः संशयार्थकत्वं क्वचित्कोशे 'किमः प्रश्ने कुत्सायां च' विश्वकोशे । ब्रह्मजीवयोः कः इति संशयः ब्रह्मसाकारत्वेन संशयविषयोपहत- पाप्मत्वादिगुणकथनात् समाहितः सर्वेषां शासनाश्रयस्य निर्गुणत्वात् । जीवोपि वासनारूपः सर्वसमाहिताणुत्वेन न त्वज्ञानकल्पिततत्वेन तदभावात् । उपाधीति पराभिध्यानतिरोहितानन्द- त्वादिरुपाधिः अतिरोहितानन्दादिश्च ब्रह्मजीवयोरूपाधी । ब्रह्मेति अग्रे इतीत्यध्याहार्यं योजनीयम् । वाद इति । उदर्कवदनं न वेति भेदवादे नैयायिकैः श्रुतीनां भेदपरत्वम् । सत्यं भिदा सत्यं भिदा १. ईषत्कालीनफल इति ध्येयः । 654