अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 748, कुल 2600 में से
संदर्भ में पढ़ेंसमासं चेद् व्यर्थमधिकरणारम्भः । इदमेव च वाक्यं, श्रुत्या वक्तव्यं च भवेत् । तस्मादस्मिन्नधिकरणे मुख्या सर्वसंकरवादादिनिराकृतिः । किं तावत् प्राप्तम् ।
भाष्यप्रकाशः । यते । तथाचैतन्निर्णयस्य पूर्वमकृतत्वात् तदर्थमेतत्प्रणयनमित्यर्थः । ननु किं तन्निर्णयेनेत्यत आहुः श्रुत्यर्थ इत्यादि । हि यतो हेतोः संदेहनिरासायैव प्रवृत्तत्वाच्छ्रुत्यर्थो निर्णेतव्यः । तथाच तन्निर्णयायैतन्निर्णय इत्यर्थः । एतेन बुद्धिस्थस्य विचारादुपोद्घातगर्भः प्रसङ्गः संगति- रिति बोधितम् । नन्वस्याधिकरणस्यैतदेव प्रयोजनमित्यत्र किं गमकमत आहुः तदित्यादि । समासमिति पर्यवसितम् । व्यर्थमिति सामान्ये नपुंसकम् । तथाच यदि तथा स्यात् तदो- पाधिभेदस्येतरत्वाप्रयोजकत्वादाम्राण्तुल्यतासंभवादितरपरामर्शसूत्रव्याख्यात्राऽधिकरणारम्भो व्यर्थ एव स्यात् । एतस्यैव वाक्यस्य