अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 754, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६६१ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥ उत्तरहेतूनां मध्ये हेतुद्वयमाह गतिशब्दाभ्याम् । गतिर्ब्रह्मलोकगम- नम् । 'एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति' इति । 'एष आत्मापहतपाप्मा सत्यकामः सत्यसंकल्पः' इति केवलभगवद्वाचकाः शब्दा ब्रह्मलोकशब्दश्च । ननूक्तं जीवस्यैवैते शब्दा गतिश्च मनोरथादिकल्पि- तानामिति । तन्निराकरणाय । तथाहि । तथैव गतिशब्दौ भगवत्येव युक्तौ । अनृतेनापिधानं हि तेषां विशेषणम् । अज्ञानावेष्टितत्वमित्यर्थः । न त्वज्ञान- भाष्यप्रकाशः । गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥ सूत्रमवतारयन्ति उत्तरेत्यादि । व्याकुर्वन्ति गतिरित्यारभ्य युक्तावित्यन्तम् । गतेरज्ञानकल्पितजीवपरत्वं यदुक्तं तत् परिहरन्ति अनृतेनेत्यादि विशेषणमित्यन्तम् । तेषामिति प्रजाशब्दोक्तानां जीवानाम् । अयमर्थः । पूर्वपक्षी हि जीवपरमात्मनोरज्ञानकल्पितं भेदं पारमार्थिकमभेदं च वदन्नज्ञानकार्यान्तःकरणावच्छिन्न- त्वाज्जीवस्वरूपमज्ञानकल्पितं मन्यते । अज्ञाननाशेऽवच्छेदकनाशात् तन्मात्रं चानुजानाति । रश्मिः । गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥ गतिरिति । भाष्ये । एवमेवेति यथा हिरण्यनिधिं भूमेरधस्तान्निहितं निधिक्षेत्रानभिज्ञा निधेरुपरि संचरन्तो निधिं न लभेरन्, [L