अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 755, कुल 2600 में से
संदर्भ में पढ़ें६६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ५ सू० १५ भाष्यप्रकाशः। आत्मनो व्यापकत्वाद् गमनागमने उपाधिनिष्ठे अङ्गीकुर्वन्ते जीवात्मन्यौपचारिकं मन्यते । तदिदमेतद्वाक्यविचारे विरुध्यते । अत्र हि ब्रह्मलोकेऽहरहर्गच्छतामपि ब्रह्मलोकाज्ञाने हेतुभूतं विशेषणम्, अनृतेन प्रत्यूढा इति । तत्रानृतपदस्याज्ञानवाचकत्वाङ्गीकारेऽपि प्रत्यूढपदं पिहित- त्वमेव ब्रूते । अनृतापिधाना इति वाक्यान्तरस्वारस्यात् । न तु तत्कल्पितत्वम् । क्वापि तथा अदर्शनात् । अतस्तत्साज्ञानावेष्टितत्वमर्थो न त्वज्ञानकल्पितत्वम् । तत्र हेतुर्दृष्टत्वम् । यतः सुप्तापादुत्थितः सर्वोऽपि, न किंचिदवेदिषमिति सुषुप्तौ स्वस्याज्ञानावेष्टितत्वमेवाहेति दृश्यते । यदि हि गन्ता अज्ञानकल्पितः स्यात् तदा जागरणे अज्ञाननाशे तस्यापि नाशात् स्मरणं नाव-