अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 767, कुल 2600 में से
संदर्भ में पढ़ें६७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ५ सू० १९ जगदाधारत्वादिकं संभवति । न हि परामर्शमात्रेण सर्ववेदान्तविरुद्धं कल्पयितुं शक्यते । परामर्शस्यान्यार्थत्वमुत्तरत्र वक्ष्यति । तस्माद् दहरो जीवो न भवितु- मर्हति । वाक्यार्थो यथोपपद्यते तथोत्तरत्र वक्ष्यते । ब्रह्म त्वेकमेव नोभयमिति निश्चयः ॥ १८ ॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ उत्तरात् प्रकरणात् प्राजापत्यात् । तत्र हि दिव्ये चक्षुषि मनोरूपे प्रती- भाष्यप्रकाशः। जीवेऽखिलजगदाधारत्वासंभवादित्यर्थः। गतिशब्दयोरुपपादनसापेक्षत्वात्तदुभयमत्र नोक्तम्। तर्हि परामर्शस्य का गतिरित्यत आहुः न हि परामर्शोत्त्यादि । नोभयमिति नावस्थाभेद- भिन्नम् । स्फुटमन्यत् ॥ १८ ॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ तस्य प्रकरणस्य जीवपरत्वं व्युत्पादयति तत्रेत्यादि । दिव्ये चक्षुषि मनोरूप इति मनोऽस्य दैवं चक्षुरिति प्रजापतिना वक्ष्य- रश्मिः। न निषेधमुखेनाधिकरणविचारे प्रासिस्तथापि लक्षणातात्पर्याभ्यां जीवाद्यतिरिक्तं ब्रह्मेत्यादिपक्षस्यैव गतिशब्दयोः प्रासिरत आहुः गतिशब्दयोरिति । तर्हीति । यद्ययमाभासस्तावदादिपदेन संगृहीतस्य परामर्शस्येत्यादिभाष्यस्य प्रतीतेस्तदा नहीत्यादिभाष्यस्य । ननु बुद्ध्याद्युपाधिपरिच्छिन्नस्य न जगदा- धारत्वादिकं संभवति वस्तुगत्या तु ब्रह्मैव जीव इति कुतो जीवे जगदाधारत्वादेरसम्भव इत्यत आहुः नहीत्यादि । सर्ववेदान्तविरुद्धमिति बुद्ध्यादिपरिच्छेदकल्पनम् । भाष्ये । उत्तरत्रेति 'अन्यार्थश्च परामर्शः' इति सूत्रे ब्रह्मसुखं फलं ब्रह्मज्ञानापेक्षायामुपयुज्येतेति । उत्तरत्रेति सूत्रे । सुषुप्तावस्थायां भगवदाविर्भावात् तथावचनमिति । प्रकृते । नावेति न उभौ अवयवौ यस्येत्युभयं नावस्थाभेदेन भिन्नमिति यावत् ॥ १८ ॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ तस्येति 'य आत्माऽपहतपाप्मा' इत्यादिकस्य । जीवेति । ननु त्रिसूत्रमिदमधिकरणं वैयासिकन्यायमालायामङ्गीकृतं तत्कुतो नाङ्गीक्रियते इति चेन्न शंकरभाष्ये दहरशेषत्वेऽप्यधिकरणत्वाविरोघो यद्यपि तथापि विषयवाक्यमात्रभेदेऽधिकरणभेदाननु- संधानात् संख्यादिभेदेऽनुसंधानात् संशयपूर्वपक्षसिद्धान्तानां भेदेनाधिकरणान्तरत्वसंदेहात् । न चांशी- यादिभेदः यथाह वैयासकिन्यायमालायां भारतीतीर्थः प्रजापतिविद्यायां य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचेति विषयवाक्यं तत्र जीवो वा ब्रह्म वेति संशयेऽवस्थात्रयोपन्यासाज्जीव इति पूर्वपक्षे य आत्मा अपहतपाप्मा विजरो विमृत्युरीति परमात्मानमुपक्रम्य स उत्तमः पुरुष इत्यन्ते परमात्मन एवोपसंहारात् । न चैवं जागरणाद्युपन्यासवैयर्थ्यमिति वाच्यम् । शाखाचन्द्र- न्यायेन परमात्मबोधोपयुक्तत्वादस्मादीशरोऽक्षिपुरुष इति वाच्यम् । 'अन्तर उपपत्तेः' इत्यधिकरणेनेव गतार्थत्वात् । तत्र छान्दोग्योपकोसलविद्यास्थं 'य एषोऽक्षिणि पुरुषो दृश्यते' इति विषयवाक्यम् । प्रतिबिम्बो वा ब्रह्म वेति संशये प्रतिबिम्बमिति पूर्वपक्षे ब्रह्मेति सिद्धान्तः 'अनवस्थितेरसम्भवाच्च नेतरः' इति सूत्रे जीवो निवारितः इति वेदान्ताधिकरणमालायां श्रीपुरुषोत्तमाः । अतो जीवपरत्वं व्युत्पाद- यतीत्यर्थः। असार्वस्य दृश्यत्वादुत्पादिता ब्रह्मग्रन्थः । मनोऽस्येति आत्मनो मनो दैवं दिव्यं चक्षुः 674